गैरिकं, क्ली, (गिरौं भवमिति अध्यात्मादित्वात् ढञ् ।) स्वर्णम् । रक्तवर्णधातुविशेषः । गिरि- माटी इति भाषा ॥ तत्पर्य्यायः । रक्तधातुः २ गिरिधातुः ३ गवेधुकम् ४ धातुः ५ सुरङ्ग- धातुः ६ गिरिमृद्भवम् ७ । इति राजनिर्घण्टः ॥ वनालक्तम् ८ गवेरुकम् ९ प्रत्यश्मा १० गिरि- मृत् ११ । इति त्रिकाण्डशेषः ॥ लोहित- मृत्तिका १२ गिरिजम् १३ ॥ पीतगैरिकस्य पर्य्यायः । सुवर्णगैरिकम् १ सुवर्णम् २ स्वर्ण- गैरिकम् ३ । इति रत्नमाला ॥ स्वर्णधातुः ४ सुर- क्तकः ५ सन्ध्याभ्रम् ६ वभ्रुधातुः ७ शिला- धातुः ८ । अनयोर्गुणाः । मधुरत्वम् । शीत- त्वम् । कषायत्वम् । व्रणरोपणत्वम् । विस्फोटा- र्शोऽग्निदाहनाशित्वम् । स्वर्णवर्णादिकं शुभम् । इति राजनिर्घण्टः ॥ निर्म्मलत्वम् । स्निग्धत्वम् । सुवर्णगैरिकं तद्वत् विशेषतश्चक्षुस्तेजस्कारित्वम् । इति राजवल्लभः ॥ “गैरिकं रक्तधातुश्च गैरेयं गिरिजन्तथा । सुवर्णगैरिकन्त्वन्यत्ततो रक्ततरं हि तत् ॥ गैरिकद्वितयं स्निग्धं मधुरन्तुवरं हिमम् । चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
📄 मूल मुद्रित पृष्ठ (2-352-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।