🕉️ 19 November 2026, Thursday · 12:03:50 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कषाय
kaṣāya
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
कषाय १ वि॰ [सं॰]
१. कसैला । बाकठ । विशेष—यह छह रसों में है ।
२. सुगंधित । खुशबूदार ।
३. रँगा हुआ ।
४. गेरू के रंग का । गैरिक । यौ॰—कषायवस्त्र ।
५. मधुर स्वरवाला (को॰) ।
६. अनुपयुक्त । अनुचित (को॰) ।
७. गंदा (को॰) ।
कषाय २ संज्ञा पुं॰ [सं॰]
१. कसैली वस्तु ।
२. गोंद । वृक्ष का निर्यास ।
३. क्वाथ । गाढ़ा रस ।
४. सोनापाठ का पेड़ । श्योनाक वृक्ष ।
५. क्रोध लोभादि विचार (जैन), जैसे, — कषाय दोष ।
६. कलियुग ।
७. अंगरागलेपन (को॰) ।
८.
११. उत्तेजना । भावावेश (को॰) ।
१२. मंदता । मूर्खता (को॰) ।
१३. सांसारिक पदार्थों के प्रति अनुरक्ति (को॰) । धूल (को॰) ।
९. गंदगी (को॰) ।
१०. विनाश । ध्वंस (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कषाय mfn. astringent, MBh. xiv, 1280 and 1411; R.; Suśr.; Pañcat.; BhP.
fragrant, Megh. 31
red, dull red, yellowish red (as the garment of a Buddhist Bhikṣu), MBh.; Hariv.; Mṛcch.; Yājñ.
कषाय m. n. (g. अर्धर्चादि) an astringent flavour or taste, Suśr.
a yellowish red colour, Yājñ. i, 272, Kāś. on Pāṇ. iv, 2, 1
an astringent juice, extract of juice, ŚBr.; KātyŚr.; Mn. xi, 153
a decoction or infusion, Suśr. (the result of boiling down a mixture consisting of one part of a drug and four or, according to some, eight or sixteen parts of water until only one quarter is left, Suśr.)
any healing or medicinal potion, Bhpr.
exudation from a tree, juice, gum, resin, L.
ointment, smearing, anointing, L.
colouring or perfuming or anointing the person with cosmetics, MBh.
dirt, filth
stain or impurity or sin cleaving to the soul, ChUp.; BhP.
dulness, stupidity, Vedāntas.
defect, decay, degeneracy (of which, according to Buddhists, there are five marks, viz. आयुस्-क्˚, दृष्टि-क्˚, क्लेश-क्˚, सत्त्व-क्˚, कल्प-क्˚)
attachment to worldly objects, W.
कषाय m. red, redness
a kind of snake, Suśr. ii, 265, 14
emotion, passion (राग, of which the Jainas reckon four kinds, HYog. iv, 6 and 77)
the Kali-yuga, L.
the tree Bignonia Indica, R. ii, 28, 21
N. of a teacher (v.l. कशाय) g. शौनकादि
कषाय mfn. (अस्, आ, अम्) the tree Grislea tomentosa, L.
कषाय n. a dull or yellowish red garment or robe, MBh. ii, 675 (cf. काषाय, पञ्च-कषाय; अ-निष्कषाय, full of impure passions, MBh. xii, 568.)
📄 मूल मुद्रित पृष्ठ (265,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कषाय a. 1 Astringent; Ś. 2. --2 Fragrant; स्फुटितकमलामोदमैत्रीकषायः Me. 31; U. 2. 21; Mv. 5. 41. --3 Red, dark-red; चूतांकुरास्वादकषायकंठः Ku. 3. 32. --4 (Hence) Sweet-sounding; Māl. 7. --5 Brown. --6 Improper, dirty. --यः, --यं 1 Astringent flavour or taste (one of the six rasas): see कटु; यो वक्त्रं परिशोषयति जिह्वां स्तंभयति कंठं बध्नाति हृदयं कषति पीडयति च स कषायः Suśr. --2 The red colour. --3 A decoction with one part of a drug mixed with four, eight, or sixteen parts of water (the whole being boiled down until one quarter is left); Ms. 11. 154. --4 Plastering, smearing; Ku. 7. 17; anointing. --5 Perfuming the body with unguents; Rs. 1. 4. --6 Gum, resin, extract or exudation from a tree. --7 Dirt, uncleanness. --8 Dulness, stupidity. --9 Attachment to worldly objects. --10 Decay, ruin. --यः 1 Passion, emotion. --2 Kali yuga.
📄 मूल मुद्रित पृष्ठ (0390-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कषाय पुंन० कषति कण्ठम्, कष--आय--अर्द्धर्चादि । (कषा) १ रसभेदे २ तद्वति त्रि० । तस्य कारणगुणादि सुश्रुते उक्तं यथा--“तत्र शैत्यरौक्षलाघववैशद्यवैष्टम्भ्य- गुणलक्षणोवायुस्तस्य समानयोनिः कषायो रसः सोऽस्य शैत्यात् शैत्यं वर्द्धयति, रौक्ष्यात् रौक्ष्यं, लाघवात् लाघवं, वैशद्यात् वैशद्यं, वैष्टम्भ्यात् वैष्टम्भ्यमिति” “योवक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति हृदयं कषति पीडयति च स कषायः” । “कषायः संग्राहकोरोपणः स्तम्भनः शोधनालेखनः शोषणः पीडनः क्लेदीपशोषणश्चेति । स एवंगुणोऽत्येकएवात्यर्थ- मुपसेव्यमानः पीडास्यशोषोदराध्मानवाक्यग्रहमन्या- स्तम्भगात्रस्फुरणचुमुचुमायनाकुञ्चनक्षेपणप्रभृतीन् जन- यति” इति च । कषायवर्गश्च । “न्यग्रोधादिरम्ब- ष्ठादिः प्रियङ्ग्वादीरोध्रादिस्त्रिफलाशल्लकीजम्ब्वाम्रबकुलतिन्दु- कफलिनीकतकशाकपाषाणभेदकवनस्पतिफलानि सालसा- रादिश्च प्रायशः कुरवककोविदारकजीवन्तीचिल्लीपालङ्क्यसु निषण्णकप्रभृतीनि नीवारकादयोमुद्गादयश्च समासेन कषा- योवर्गः” सुश्रु० । अस्योत्पत्तिकारणमपि तत्रोक्तं यथा- “तस्मादाप्योरसः परस्परसंसर्गात् परस्परानुग्रहात् पर- स्परानुप्रवेशाच्च सर्वेसु सर्वेषां सान्निध्यमस्त्युत्कर्षापकर्षात्तु ग्रहणम् । स खल्वाप्योरसः शेषभूतसंसर्गाद्विदग्धाः षोढा विभज्यते” इत्युपक्रम्य । पृथिव्यनिलगुणबाहुल्यात् कषायः इति । तत्र तस्य च पित्तकफघ्नत्वमपि तत्रैवोक्तम् “मघुरातक्तकषायाः पित्तघ्नाः कटुतिक्तकषायाः श्लेष्मघ्नाः” इति । “केचिदाहुरग्नीषोमीयत्वाज्जगतो रसाः द्विविधाः सौम्या आग्नेयाश्च, तत्र मधुरतिक्तकषायाः सौम्याः, कट्वम्ललवणा आग्नेयाः मधुराम्ललवणाः स्निग्धाः गुर- [] वश्च कटुतिक्तकषाया रूक्षा लघवश्च । सौम्याः शीता आग्नेयाश्चीष्णाः” इति सुश्रुते अन्यमतेनोक्त्वा तच्च दूष- यित्वा पूर्वदर्शितमतमादृतम् भावप्र० तदेतद्विवृतम् यथा- “कषायो रोपणो ग्राही स्तम्भनः शोधनस्तथा । लेखनः पीडनः सौम्यः शोषणो वातकोपनः । कफशोणि- तपित्तघ्नो रूक्षः शीतो लघुर्मतः । त्वक्प्रसादनमालस्य स्तम्भनो विषदो मतः । जिह्वाया जाड्यकृत् कण्ठस्रोतसाञ्च विबन्धकृत्” । रोपणः व्रणस्य, स्तम्भनो गात्राणां, शोधनो व्रणस्य, लेखनो व्रणाद्युत्- सन्नमांसस्य, शोषणोव्रणमज्जादीनाम् । पीडनो हृदयस्य वातकारित्वात्, सौम्यः सोमादुत्पन्नः” । अथा- तियुक्तस्य कषायस्य गुणास्तत्रोक्ताः “सोऽतिचयुक्तो गुदा- ध्मानहृत्पीडाक्षेपणादिकृत्” । अभयायामत्र विशेषः । “प्रायशः स्तम्भनं प्रोक्तं कषायमभयां विना” । ३ राग- द्वेषादिदोषे । “आहारशुद्धौ सत्वशुद्धिः सत्वशुद्धौ ध्रुवा स्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसः पारं दर्शयति” छा० उ० । “तस्मै मृदितकषायाय वार्क्षारादिरिव कषायो राग- द्बेषादिदोषः, सत्वस्य रञ्जनरूपत्वात् ज्ञानवैराग्या- भ्यासरूप्रक्षारेण क्षालितोमृदितो विनाशितो यस्य नार- दस्य तस्मै” भा० । “कषाये कर्मभिः पक्वे ततो ज्ञानं प्रजायते” वेदा० प० कर्मणां रागद्वेषादिदोषरूपकषा- यनाशकत्वमुक्तम् । “लयविक्षेपाभावेऽपि चित्तवृत्तेः रागा- दिवासनया स्तकीभावात् अखण्डवस्त्वनवलम्बनं कषायः” इति वेदान्तसारोक्तलक्षणे ४ निर्विकल्पकसमाधिविघ्नभेदे “सकषायं विजानीयात् शमप्राप्तं न चालयेत्” । “सकषायं कलुषितं मे चित्तमिति, विज्ञाय शमेऽद्विती यात्मनि निवेशयेत्” विद्वन्म० । ५ रक्ते अनुरागान्विते ६ सुरभौ ७ अपटौ च केशवः । “चूताङ्कुरास्वादकषाय कण्ठः” कुमा० । “कषायः रक्तः” मल्लि० । “निद्रा- कषायितविपाटललोचनेषु” माघः “कषायितान्यपटू- कृतानि” मल्लि० । ८ रागे ९ क्वाथभेदे १० निर्यास
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
कषायः, पुं, क्ली, (कषति कण्ठम् । कष् + आयः ।) रसविशेषः । कषा इति भाषा । पृथिव्यनिलगुण- बाहुल्यात्तस्योत्पत्तिः । इति शिवदासः ॥ (यथा, मनुः ११ । १५३ । “शुक्तानि च कषायांश्च पीत्वामेध्यान्यपि द्विजः” ॥) तत्पर्य्यायः । तुवरः २ तद्युक्ते त्रि । इत्यमरः । १ । ५ । ९ ॥ कुवरः ३ तूरवः ४ । इति तट्टीका ॥ अस्य गुणाः । व्रणादिरोपणत्वम् । ग्राहित्वम् । शोषणत्वम् । वायुकोपकारित्वञ्च । अतियुक्तस्य तस्य गुणः । मलमूत्रग्रहाध्मानहृत्पीडाक्षेपणादि- रोगकारित्वम् । अन्यच्च । “कषायः शोषणः स्तम्भी व्रणपाकार्त्तिनाशनः । कफशोणितवातघ्नी रूक्षः शीतो गुरुस्तथा” ॥ इति राजवल्लभः ॥ अपि च । “कषायनामा निरुणद्धि शोफं वर्णन्तनोर्दीपनपाचनश्च । सत्त्वापहोऽसौ शिथिलत्वकारी निषेवितः पाण्डु करोति मात्रम्” ॥ इति राजनिर्घण्टः ॥ * ॥ पाचनादिः । तस्य पूर्ण- वीर्य्यं याममेकं तिष्ठति । तत्पर्य्यायः । क्वाथः २ निर्य्यूहः ३ । स तु पञ्चविधो यथा । स्वरसः १ कल्कः २ क्वथितः ३ शीतः ४ फाण्टम् ५ । इति वैद्यकपरिभाषा ॥ * ॥ (“जिह्वां कण्ठं ग्रसति नितरां ग्राहकश्चातिसारे श्लेष्मव्याधेरुपशमकरः श्वासकासापहर्त्ता । हिक्कां शूलं हरति नितरां शोधनं स्याद्व्रणानां प्रोक्तश्चायं समधिकगुणो नाम श्रेष्ठः कषायः” ॥ इति हारीते प्रथम स्थाने ७ अध्याये ॥ “कषायो जडयेज्जिह्वां कण्ठस्रोतो विबन्धकृत्” ॥ “कषायः पित्तकफहा गुरुरस्रविशोधनः । पीडनो रोपणः शीतः क्लेदमेदो विशोषणः । आमसंस्तम्भनो ग्राही रूक्षोऽतित्वक्प्रसादनः ॥ करोति शीलितः सोऽति विष्टम्भाध्मानहृद्रुजः । तृट्कार्श्य पौरुषभ्रंशस्रोतोरोधमलग्रहान्” ॥ इति वाभटे सूत्रस्थाने १० अध्याये ॥ “कषायो रसः संशमनः संग्राही सन्धारणः पीडनो रोपणः शोषणः स्तम्भनः श्लेष्मरक्तपित्त- प्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतो गुरुश्च । स एवं गुणोऽप्येक एवात्यर्थमुपयुज्यमानः आस्यं शोषयति, हृदयं पीडयति, उदरमाध्मापयति, वाचां निगृह्णाति, स्रोतांस्यवबध्नाति, श्यावत्व- मापादयति, पौंस्त्वमुपहन्ति, विष्टभ्य जरां गच्छति, वातमूत्रपुरीषाण्यवगृह्णाति, कर्षयति, ग्लापयति, तर्षयति, स्तम्भयति, खरविषद- रूक्षत्वात् पक्षवध-ग्रहापतानकार्द्दितप्रभृतींश्च वातविकारानुपजनयतीति” । “वैषद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः । बध्नातीवचयः कण्ठं कषायः स विकास्यपि” ॥ [] “पवन पृथिव्यतिरेकात् कषायः” ॥ इति चरके सूत्रस्थाने २६ अध्याये ॥) निर्यासः । (यथा, महाभारते अनुशासनपर्व्वणि । “घृष्टो वटकषायेण अनुलिप्तः प्रियङ्गुणा । क्षीरेण षष्टिकान् भुक्त्वा सर्व्वपापैः प्रमुच्यते” ॥) विलेपनम् । (यथा कुमारे ७ । १७ । “कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे” ॥ “लोध्रस्य वृक्षविशेषस्य कषायेण विलेपनेन” ॥ इति मल्लिनाथः ॥) अङ्गरागः । इति मेदिनी ॥
कषायः, पुं, (कष् + आयः ।) श्योणाकवृक्षः । इति धरणी ॥ रागः । इत्यमरटीकायां स्वामी ॥ (यथा छान्दग्योपनिषदि । “आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्व्वग्रन्थीनां विप्रमोक्ष- स्तस्मै मृदितकषायाय तमसः पारं दर्शयति” । “तस्मै मृदितकषायाय वार्क्षारादिरिव कषायो रागद्वेषादिदोषः सत्त्वस्य रञ्जनरूपत्वात् ज्ञान- वैराग्याभ्यासरूपक्षारेण क्षालितो मृदितो विना- शितो यस्य नारदस्य तस्मै” । इति भाष्यम् ॥) कलियुगम् । इत्यमरटीकासारसुन्दरी ॥ (निर्व्वि- कल्पसमाधेर्विघ्नभेदः । यथा, वेदान्तसारे समा- धिकल्पे ८१ । “लयविक्षेपाभावेऽपि चित्तवृत्तेरागादिवासनया स्तब्धीभावात् अखण्डवस्त्वनवलम्बनम्” । तत्रानेक जन्माभ्यस्त वाह्याभ्यन्तररागाद्यनुभवजनितसंस्कारैः कलुषीकृतं चित्तं कथञ्चित् श्रवणादिसाधनेनान्त- र्मुखमपि चैतन
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "कषाय" आता है (6)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें