🕉️ 19 November 2026, Thursday · 06:29:39 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गोपाल
gopāla
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गोपाल संज्ञा पुं॰ [सं॰]
१. गौ का पालन पोषण करनेवाला
२. अहीर । ग्वाला ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गो—पाल m. (proparox., Pāṇ. vi, 2, 78) a cowherd, VS. xxx, 11; ŚBr. iv; Mn. iv, 253; Yājñ. &c. (ifc. f(आ). , R. ii, 67, 25)
‘earth-protector’, a king (and ‘cowherd’), Pañcat.
(= -पति) Kṛṣṇa, MBh. iii, 15530
Śiva, L.
N. of a demon causing fever, Hariv. 9556
of a Nāga, Buddh.
of a minister of king Bimbi-sāra, ib.
of a king, ib.
of a general of king Kīrti-varman, Prab. i, 4
of a scholar, Pratāpar., Sch.
= -पालक, q.v.
📄 मूल मुद्रित पृष्ठ (365,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गोपाल पु० गां भूमिं पशुभेदं वा पालयति पालि--अण् उप० स० । १ नृपे २ गोरक्षके च । “क्षत्रियात् शूद्रकन्यायां समुत्पन्नस्तु यः सुतः । स गोपाल इति ज्ञेयो भोज्योवि- प्रैर्न संशयः” पराशरोक्ते ३ सङ्कीर्णजातिभेदे । “आर्द्धिकः कुलमित्रश्च गोपालोदासनापितौ । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्” मनुना तस्य भोज्यान्नतोक्ता । नन्दनन्दने ४ विष्णीरवतारभेदे तद्रूपञ्च पद्मपु० पाताल ख० “त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन!” । श्रीकृष्णं प्रति व्यासप्रार्थने भगवदुक्ति व्यासवाक्ये यथा “पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम् । ततोऽ [] पश्यमहं भूप! बालं बालाम्बुद प्रभम् । गोपकन्यावृत गोपं हसन्तं गोपबालकैः । कदम्बमूलमासीनं पीतवासः समुज्ज्वलम् । वनं वृन्दावनं नाम नवपल्लवमण्डितम् । कोकिलभ्रमरारावमनोभवमनोहरम् । नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभाम् । गोवर्द्धनं तथाऽपश्यं कृष्णवामकरोद्धृतम् । महेन्द्रदर्पनाशाय गोगोपालसुखा- वहम् । दृष्ट्वा विहृष्टो ह्यभवं सर्व्वभूषणभूषणम् । गोपालमबलासङ्गमुदितं वेणुनादिनम्, । तस्य ध्यानमन्त्रयन्त्रादिकं तन्त्रसारे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (2710-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गोपालः, पुं, (गाः पालयतीति । गा + पाल + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) गवां पालकः । वृन्दावनस्थगोपालानां स्वरूपं यथा, “गोपाला मुनयः सर्व्वे वैकुण्ठानन्दमूर्त्तयः ॥” इति पद्मपुराणे पातालखण्डे व्यासं प्रति श्रीकृष्ण- वाक्यम् ॥ * ॥ (गां पृथिवीं पालयतीति । गो + पाल + अण् ।) राजा । (गां पृथिवीं वेदं वा पालयतीति ।) नन्दनन्दनः कृष्णः । इति मेदिनी । ले । ८६ ॥ * ॥ श्रीगोपालस्य ध्यानं यथा, “अव्याद्व्याकोषनीलाम्बुजरुचिररुणाम्भोज- नेत्रोऽम्बुजस्थो बालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीको मुकुन्दः । दोर्भ्यां हैयङ्गवीनं दधदतिविमलं पायसं विश्व- वन्द्यो गोगोपीगोपवीतो रुरुनखविलसत्कण्ठभूष- श्चिरं वः ॥” इति तन्त्रसारः ॥ * ॥ तस्य स्वरूपं यथा, -- श्रीव्यास उवाच । “ततोऽहमब्रुवं हृष्टः पुलकोत्फुल्लविग्रहः । त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन ! ॥ यत्तत् सत्यं परं ब्रह्म जगद्योनिर्जगत्पतिः । वसन्तं वेद शिरसि चाक्षुषं नाथ ! मेऽस्तु तत् ॥ श्रीभगवानुवाच । ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा । यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते ॥ मामेके प्रकृतिं प्राहुः पुरुषञ्च तथेश्वरम् । धर्म्ममेके धनञ्चैके मोक्षमेकेऽकुतोभयम् ॥ शून्यमेके भावमेके परमार्थमथापरे । दैवमेके देवमेके ग्रहमेके मनः परे ॥ बुद्धिमेके कालमेके शिवमेके सदाशिवम् । [] अपरे वेदशिरसि स्थितमेकं सनातनम् ॥ सद्भावं विक्रियाहीनं सच्चिदानन्दविग्रहम् । मन्मायामोहितधियः सर्व्वकालेषु वञ्चिताः ॥ कोऽपि वेद पुमान् लोके मदनुग्रहभाजनः । पश्याद्य दर्शयिष्यामि स्वं रूपं वेदगोपितम् ॥ ततोऽपश्यमहं भूप ! बालं बालाम्बुदप्रभम् । गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ॥ कदम्बमूलमासीनं पीतवाससमद्भुतम् । वनं वृन्दावनं नाम नवपल्लवमण्डितम् ॥ कोकिलभ्रमरारावमनोभवमनोहरम् । नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभाम् ॥ गोवर्द्धनं तथापश्यं कृष्णवामकरोद्धृतम् । महेन्द्रदर्पनाशाय गोगोपालसुखावहम् ॥ दृष्ट्वा विहृष्टो ह्यभवं सर्व्वभूषणभूषणम् । गोपालमबलासङ्गमुदितं वेणुनादितम् ॥ ततो मामाह भगवान् वृन्दावनवचः स्वयम् । यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥ निष्कलं निष्क्रमं शान्तं सच्चिदानन्दविग्रहम् । पूर्णं पद्मपलाशाक्षं नातः पंरतरं मम ॥ इदमेव वदन्त्येते वेदाः कारणकारणम् । सत्यं व्यापि परानन्दचिद्घनं शाश्वतं शिवम् ॥ नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा । यमुनां गोपकन्याश्च तथा गोपालबालकान् ॥ ममावतारो नित्योऽयमत्र मा संशयं कृथाः । ममेष्टा हि सदा राधा सर्व्वज्ञोऽहं परात्परः ॥ मयि सर्व्वमिदं विश्वं भाति मायाविजृम्भितम् ॥” इति पद्मपुराणे पातालखण्डम् ॥ * ॥ द्बादशगोपालाश्चैतन्यशब्दे द्रष्टव्याः ॥
📄 मूल मुद्रित पृष्ठ (2-358-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "गोपाल" आता है (5)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें