🕉️ 20 November 2026, Friday · 04:31:50 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गोयज्ञ
goyajña
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गोयज्ञ संज्ञा पुं॰ [सं॰] दे॰ गोमेध [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गो—यज्ञ m. sacrifice of cattle, Gobh.; PārGṛ.
a sacrifice in honour of cows, Hariv. 3851.
📄 मूल मुद्रित पृष्ठ (366,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गोयज्ञ पु० गवा कृतो यज्ञः । १ गोसवयज्ञे तच्छब्दे विवृतिः । गा उद्दिश्य यज्ञः । श्रीकृष्णेन गोपानां हितार्थं वृन्दावने प्रवर्त्तिते गोवर्द्धनगिरियज्ञसहिते गवां महोत्- सवकारके २ व्यापारभेदे तत्तथा हरिवं० ७३ अ० । “शरद्येवं सुशस्यायां प्राप्तायां प्रावृषः क्षये । नील- चन्द्रार्कवर्णैश्च रचितं बहुभिर्द्विजैः । फलैः प्रबालेन घनमिन्द्रचापघनोपमम् । भवनाकारविटपं लतापरम मण्डितम् । विशालमूलविततं पवनाभोगधारिणम् । अर्चयामागिरिं देवं गाश्चैब सविशेषतः । सावत- सैर्विषाणैश्च बर्हापीडैश्च दंशिर्तेः । घण्टाभिश्च प्रल- म्बाभिः पुष्पैः शारदिकैस्तथा । शिवाय गावः पूज्यन्तां [] गिरियज्ञः प्रवर्त्यताम् । पूज्यतां त्रिदशैः शक्रो गिरि- रस्माभिरिज्यताम् । गोयज्ञं कारयिष्यामि बलादेव न संशयः” । एवं श्रीकृष्णेनोक्ते गोपवाक्यं यथा “यत्त्वया ऽभिहितं वाक्यं गिरियज्ञं प्रति प्रभो । कस्तल्लङ्घयितुं शक्तो वेलामिव महोदधेः । स्थितः शक्रमहस्तात! श्रीमान् गिरिमहस्त्वयम् । त्वत्प्रणी- तोऽद्य गोपानां गवां हेतोः प्रवर्त्यताम् । भाजनान्युप कल्प्यन्तां पयसः पेशलानि च । कुम्भाश्च विनिवेश्यन्ता मुदपानेषु शोभनाः । पूर्य्यन्तां पयसा नद्यो द्रोण्यश्च विपुलायताः । भक्ष्यं भोज्यञ्च पेयञ्च तत्सर्व्वमुपनीयताम् । भाजनानि च मांसस्य न्यस्यन्तामोदनस्य च । त्रिरात्र- ञ्चैव सन्दोहः सर्व्वघोषस्य गृह्यताम् । विशस्यन्ताञ्च पशवो भोज्या ये महिषादयः । प्रवर्त्यताञ्च यज्ञोऽयं सर्वगोपसु- सङ्गुलः । आनन्दजननो घोषो महान् मुदितगोकुलः । तूर्य्यप्रणादघोषैश्च वृषभाणाञ्च गर्ज्जितैः । हम्भा- रवैश्च वत्सानां गोपानां हर्षवर्द्धनः । दधिह्रदः शरा- वर्त्तः पयःकुल्यासमावृतः । मांसराशिप्रकॢप्ताद्यः प्रकाशौदनपर्वतः । सं प्रावर्तत यज्ञः स गिरेर्गोभिः समाकुलः । तुष्टगोपगणाकीर्णो गोपनारीमनोहरः । अथाधिशृतपर्य्यन्ते पर्य्याप्ते यज्ञसंविधौ । यज्ञं गिरेस्तिथौ सौम्ये चक्रुर्गोपा द्विजैः सह । यजनान्ते तदन्नन्तु तत्पयो दधि चोत्तमम् । मांसञ्च मायया कृष्णो गिरिर्भूत्वा समश्नुते । तर्पिताश्चापि विप्राग्र्यास्तुष्टाः सम्पूर्णभोजनाः । उत्तस्थुः प्रीतमनसः स्वस्ति वाच्य यथासुखम् । भुक्त्वा चावभृथे कृष्णः पयः पीत्वा च कामतः । संतृप्तोऽस्मीति दिव्येन रूपेण प्रजहास वै । तं गोपाः पर्वताकारं दिव्यस्रगनुलेपनम् । गिरिमूर्द्ध्नि स्थितं दृष्ट्वा कृष्णं जग्मुः प्रधानतः । भगवानपि तेनैव रूपेणाच्छादितः प्रभुः । सह तैः प्रणतो गोपैर्ववन्दा- त्मानमात्मना । तमूचुर्विस्मिता गोपा देवं गिरिवरे स्थितम् । भगवंस्त्वद्वशे युक्ता दासाः किं कुर्म? किङ्कराः । स उवाच ततो गोपान् गिरिप्रभवया गिरा । अद्य प्रभृति याज्योऽहं गोषु यद्यस्ति वो दया । अहं वः प्रथमो देवः सर्वकामकरः शुभः । सम प्रभावाच्च गवामयुता- न्युपभोक्ष्यथ । शिवश्च वो मविष्यामि मद्भक्तानां वने वने । रंस्येऽहं सह युष्माभिर्यथा दिवि गतस्तथा । ये चेमे प्रथिता गोपा नन्दगोपपुरोगमाः । एषां प्रीतः प्रयच्छामि गोपानां विपुलं धनम् । पर्य्याप्नुवन्तु [] क्षिप्रं मां गावो वत्ससमाकुलाः । एवं मम परा प्रीतिर्भविष्यति न संशयः” ७४ अ० ।
📄 मूल मुद्रित पृष्ठ (2717-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें