गोलक्षण न० ६ त० । गोः शुभाशुभसूचके चिह्नभेदे वृ० स० तल्लक्षणाद्युक्तं यथा “पराशरः प्राह वृहद्रथाय गोलक्षणं यत् क्रियते ततोऽयम् । मया समासः शुभलक्षणास्ता सर्वास्तथा- प्यागमतो ऽभिधास्ये । सास्राबिलरूक्षाक्ष्यो मूषक नयनाश्च न शुभदा गावः । प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः । दशसप्तचतुर्दन्त्यः प्रलम्ब मुण्डानना विनतपृष्ठाः । ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च । श्यावातिदीर्घजिह्वागुल्फेरतितनु- भिरतिवृहद्भिर्वा । अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च । वृषभोऽप्येवं स्थुलातिलम्ब- [] वृषणः सिराततक्रोडः । स्थूलसिराचितगण्डस्त्रि- स्थानं मेहते यश्च । मार्जाराक्षः कपिलः करटो वा न शुभदो द्विजस्येष्टः । कृष्णोष्ठतालुजिह्वः श्वसनो यूथस्य घातकरः । स्थूलशकृष्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च । गृहजातोऽपि त्याज्यो यूथविना- शावहो वृषभः । श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो विडाल्यक्षः । विप्राणामपि न शुभं करोति वृषभः परिगृहीतः । ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृशग्रीवाः । कातरनयना हीनाश्च पृष्ठतस्ते न भार- सहाः । मृदुसंहततास्वोष्ठास्तनुस्फिजस्ताम्रतालुजिह्वाश्च । तनुह्रस्वीञ्चश्रवणाः सुकुक्षयः स्पष्टजङ्घाश्च । आताम्र संहतखुरा व्यूढोरस्का वृहत्ककुदयुक्ताः । स्निग्ध श्लक्ष्णतनुत्वग्रोमाणस्ताम्रतनुशृङ्गाः । तनुभूस्पृग्बालधयो रक्तान्तविलोचना महोच्छासाः । सिंहस्कन्धास्तन्वल्प कम्बलाः पूजिताः सुगताः । वामावर्तैर्वामे दक्षिणपार्श्वे च दक्षिणावर्त्तैः । शुभदा भवन्त्यनडुहो जङ्घाभिश्चै- णकनिभाभिः । वैदूर्य्यमल्लिकाबुद्बुदेक्षणाः स्थूलनेत्र- वर्माणः । पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्वेऽपि भार- वहाः । घ्राणोद्देशे शवलो मार्जारमुखः सितश्च दक्षिणतः । कमलोत्पलताक्षाभः सुबालधिर्वाजितुल्य जवः । लम्बैर्वृषणैर्मेषोदरश्च सङ्क्षिप्तवङ्क्षणक्रोडः । ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः । सित- वर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महावक्त्रः । हंसो- नाम शुमफलो यूथस्य विवर्धनः प्रोक्तः । भूस्पृग्बाल- धिराताम्रवङ्क्षणो रक्तदृक् ककुद्मी च । कल्माषश्च स्वामिनमचिरात् कुरुते पतिं लक्ष्म्याः । यो वा सितैकचरणो यथेष्टवर्णश्च सोऽपि शस्तफलः । मिश्र- फलोऽपि ग्राह्यो यदि नैकान्तप्रशस्तोऽस्ति” ६१ अ० ।
📄 मूल मुद्रित पृष्ठ (2719-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।