🕉️ 22 November 2026, Sunday · 11:51:58 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गोवर्धन
govardhana
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गोवर्धन संज्ञा पुं॰ [सं॰] दे॰ गोवर्द्धन ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गो—वर्धन m. a celebrated hill in Vṛndāvana near Mathurā (lifted up and supported by Kṛṣṇa upon one finger for 7 days to shelter the cowherds from a storm of rain sent by Indra to test Kṛṣṇa's divinity, cf. RTL. p. 113), Inscr.; MBh. ii, 1441; v, 4410; Hariv.; Ragh. &c.
N. of a holy fig-tree in the country of the Bāhīkas, MBh. viii, 2031
N. of the author of ˚नसप्तशती (of the 12th or 13th century A.D.), Gīt. i, 4; ŚārṅgP., Sch. on Uṇ. &c.
N. of one of the 5 Śruta-kevalins, Jain.
= ˚न-धर, Cāṇ.
📄 मूल मुद्रित पृष्ठ (366,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गोवर्द्धनः, पुं, (गाः वर्द्धयति कोमलतृणपत्रादि- दानेन इति । वृध् + णिच् + ल्युः । यद्वा गावो बर्द्ध्यन्तेऽत्र इति । णिच् + ल्युट् अधिकरणे । पर्व्वतबोधकत्वात् पुंस्त्वम् । यद्वा गां पृथ्वीं भूमिं वा वर्द्धयति । वृध् + णिच् कर्त्तरि ल्युः । स्वनामख्यातश्रीवृन्दावनस्थपर्व्वतः । इति जटा- धरः ॥ तस्य स्वरूपं यथा, -- “अनादिर्हरिदासोऽयं भूधरो नात्र संशयः ।” इति पाद्मे पातालखण्डे व्यासं प्रति श्रीकृष्ण- वाक्यम् ॥ तस्य पूजाकालादिर्यथा, -- “प्रातर्गोबर्द्धनं पूज्य द्यूतञ्चैव समाचरेत् । भूषणीयास्तथा गावः पूज्याश्च दोहवाहनाः ॥ श्रीकृष्णदासवर्य्योऽयं श्रीगोवर्द्धनभूधरः । शुक्लप्रतिपदि प्रातः कार्त्तिकेऽर्च्च्योऽत्र वैष्णवैः ॥” “प्रातर्गोवर्द्धनं पूज्य रात्रौ जागरणं चरेत् ।” इति क्वचित् पाठः । तस्मात्तदिदं कर्म्म गोवर्द्धनप्राधान्येन गोप्रा- धान्येन च ख्यातमप्येकमेव ज्ञेयम् । तत्र दिन- निर्णयः । तदाह देबलः । [] “प्रतिपद्दर्शसंयोगे क्रीडनन्तु गवां मतम् । परविद्धान्तु यः कुर्य्यात् पुत्त्रदारधनक्षयः ॥” निर्णयामृतधृतं पुराणान्तरवचनम् । “या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप ! । पूजामात्रेण वर्द्धन्ते प्रजा गावो महीपतेः ॥” ततः प्रातर्गोवर्द्धनं पूज्येति पूर्व्वाह्णतात्पर्य्यकम् । द्वितीयासमये तु सर्व्वथा निषिद्धम् । तद्- यथा, -- “नन्दायां दर्शने रक्षा बलिदानदशासु च । भद्रायां गोकुलक्रीडा देशनाशाय जायते ॥” पुराणसमुच्चये तु सन्भावितचन्द्रोदयद्वितीया- संयोग एव निषिध्यते । “गवां क्रीडादिने यत्र रात्रौ दृश्यते चन्द्रमाः । सोमो राजा पशून् हन्ति सुरभी पूजकांस्तथा ॥” तदुदयसम्भावनञ्च निर्णयामृते निर्णीतम् । प्रति- पद्यापराह्णिकत्रिमुहूर्त्तव्यापिन्यां द्वितीयायां चन्द्रदर्शनं सम्भाव्यते । तदुक्तमग्न्याधानविषये वृद्धशातातपेन । “द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णिकी । अग्न्याध्यानञ्चतुर्द्दश्यां परतः सोमदर्शनादिति ॥” अपराह्णश्च पञ्चधा विभक्तस्याह्नश्चतुर्थोभागः । ततश्च यत्र प्रतिपदि यन्मुहूर्त्तव्यापिनी द्वितीया तत्र चन्द्रदर्शनसम्भावनमिति । अन्यदा तूत्त- रैव प्रतिपत्तत्र गृहीता । तथैव पुराण- समुच्चवे । “वर्द्धमानतिथौ नन्दा यदा सार्द्धत्रियामिका । द्वितीयावृद्धिगामित्वादुत्तरा तत्र चोच्यते ॥” किञ्च । यदा पूर्णप्रतिपत् परत्र निष्क्रामति तदाप्युत्तरैव कार्य्या । यथोक्तं भविष्योत्तरे । “यथा द्वादशभिर्म्मासैर्म्मासो वृद्धो मलिम्लुचः । तथैवाहोरात्रिवृद्ध्या तिथिः प्रोक्तो मलिम्लुचः ॥ यथा मलिम्लुचः पूर्व्वो मासो दैवस्तथा परः । त्याज्या तिथिस्तथा पूर्व्वा ग्राह्या चैव तथो- त्तरेति निर्णयामृतमतम् ॥ किन्तु । व्यञ्जलीन्यायेन पूर्व्वैव मन्तुं शक्यते । तद्वदत्रापि देवलादि- वचनप्रामाण्यमस्तीति ॥ * ॥ अथ गोवर्द्धनपूजाविधिः । पाद्म तत्रेव । “मथुरायास्तथान्यत्र कृत्वा गोवर्द्धनं गिरिम् । गोमयेन महास्थूलं तत्र पूज्यो गिरिर्यथा ॥ मथुरायां तथा साक्षात् कृत्वा चैव प्रदक्षिणम् । वैष्णवं धाम स प्राप्य मोदते हरिसन्निधौ ॥” पूजामन्त्रः । “गोवद्धन ! धराधार ! गोकुलत्राणकारकः । विष्णुबाहुकृतोच्छ्रायो गवां कोटिप्रदो भव ॥” गोपूजामन्त्रः । स्कान्दे तत्रैव । “लक्ष्मीर्या लोकपालानां धेनुरूपेण संस्थिता । घृतं वहति यज्ञार्थे यमपाशं व्यपोहतु ॥ अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः । गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्यहम् ॥” अथ गोक्रीडा । तत्रैव । “क्रोधापयेद्धावयेच्च गोमहिष्यादिकं ततः । वृषान् कर्षापयेद्गोपैरुक्तिप्रत्युक्तिबादनात् ॥” [] पाद्मे च तत्रैव । “महिष्यादेस्तथा भूषा क्री
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬