🕉️ 22 November 2026, Sunday · 10:15:25 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गोविंद
goviṃda
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गोविंद संज्ञा पुं॰ [सं॰ गोपेंद्र या गोविन्द, पा॰ गोविंद]
१. श्रीकृष्ण
२. वेदांतवेत्ता । तत्वज्ञ ।
३. बृहस्पति ।
४. शंकराचार्य के गुरु का नाम ।
५. सिक्खों के दस गुर्ओं में से एक ।
६. परब्रह्म ।
७. गोशाला या गौओं का अध्यक्ष ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गो—विन्द m. (Pāṇ. iii, 1, 138, Vārtt. 2) ‘= -विद् (or fr. Prākṛt gov'-inda = गोपेन्द्र ?)’, Kṛṣṇa (or Viṣṇu), MBh.; Hariv.; Bhag.; BhP. (cf. RTL. p. 405)
Bṛhaspati (cf. गोत्र-भिद्), L.
(= Viṣṇu) N. of the 4th month, VarBṛS. cv, 14
(fr. Prākṛt gov'-inda = गोपेन्द्र) a chief herdsman, L.
N. of a prince
of several teachers and authors
of a mountain, MBh. vi, 460
गो-विन्द &c. See ib.
📄 मूल मुद्रित पृष्ठ (366,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गोविन्द पु० गां वेदमयीं वाणीं गां भुवं धेनुं स्वर्गं वा वि- न्दति “गवादिषु संज्ञायाम्” पा० श, ६ त० । विष्णौ वराह- रूपेण भुव ऐश्वर्य्यप्राप्तेः इन्द्रेण स्वर्गस्य निवेदनात् मत्स्य- रूपेण वेदस्योद्धारणात् गोभिर्वेदान्तवाक्यैः विद्यते इति वा तस्य तथात्वम् “गोभिरेव यतो वेद्यो गोविन्दः समुदाहृतः” विष्णु सहस्र० भाष्यधृतवाक्यम्” “नष्टां तु धरणीं पूर्व्वमविन्दत् यत् गुहागताम् । गोविन्द इति तेनाहं वेदैर्वाग्भिरभिष्टुतः” भा० शा० ३४४ अ० । “गौरेषा भवतो वाणी ताञ्च वेदयते भवान् । गोविन्दस्तु ततोदेवमुनिभिः कथ्यते भवान् ।” तद्भाष्यधृतहरिव० वाक्यम् । “अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः । गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुबि शाश्वतम्” हरिव० ७६ अ० । गोभिश्च गोविन्दस्याभिषेककथा हरिव० ७६ अ० यथा “ततः शक्रस्तु तान् गृह्य घटान् दिव्यपयोधरान् । अभिषेकेण गोविन्दं योजयामास योगबित् । दृष्ट्वाभि- षेच्यमानं च गावस्तम् सह यूथपैः । स्तनैः प्रस्नवसंयुक्तैः सिषिचुः कृष्णमव्ययम् ।” अभिषिक्तं तु तं गोभिः शक्रो गोविन्दमव्ययम्” इति च।
📄 मूल मुद्रित पृष्ठ (2722,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गोविन्दः, पुं, (गां पृथ्वीं धेनुं वा विन्दतीति । विन्द + “अनुपसर्गाल्लिम्पेति ।” ३ । १ । १३८ । इत्यस्य “गवादिषु विन्देः संज्ञायाम् ।” इति वार्त्तिकोक्त्या शः ।) श्रीकृष्णः । (यथा, भग- वद्गीतायाम् । १ । ३२ । “किं नो राज्येन गोविन्द ! किं भोगैर्जीवि- तेन वा ॥”) एतस्य शास्त्रान्तरीयव्युत्पत्तिर्यथा, हरिवंशे-- विष्णुपर्व्वणि । ७५ । ४३--४५ । [] “अद्य प्रभृति नो राजा त्वमिन्द्रो वै भव प्रभो ! । तस्मात्त्वं काञ्चनैः पूर्णैर्दिव्यस्य पयसो घटैः ॥ एभिरद्याभिषिच्यस्व मया हस्तावनामितैः । अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः ॥ गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्व- तम् ॥” गोभिर्वाणीभिर्वेदान्तवाक्यैर्विद्यते योऽसौ पुरुष- विदन्ति यं पुरुषं तत्त्वज्ञा इति वा । यथा, विष्णुतिलके । “गोभिरेव यतो वेद्यो गोविन्दः समुदाहृतः ॥” गां वेदलक्षणां वाणीं गोभूम्यादिकं वा वेत्तीति । यथा, गोपालतापन्यां पूर्व्वविभागे ध्यानप्रक- रणे । ७--८ । “तदु होचुः कः कृष्णो गोविन्दश्च कोऽसाविति गोपीजनवल्लभः कः का स्वाहेति ॥ तानुवाच ब्राह्मणः पापकर्षणो गोभूमिवेदविदितो विदिता गोपीजनाविद्याकलाप्रेरकस्तन्माया चेति ।” रतन्नाम्नो भारतादिमतेन व्युत्पत्तिर्यथा, महा भारते । १ । २१ । १२ । “गां विन्दता भगवता गोविन्देनामितौजसा । वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥” तत्रैव । ५ । ७० । १३ । “विष्णुर्विक्रमणाद्देवो जयनाज्जिष्णुरुच्यते । शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् ॥” यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्याये । “युगेयुगे प्रणष्टां गां विष्णो ! विन्दसि तत्त्वतः । गोविन्देति ततो नाम्ना प्रोच्यसे ऋषिभिस्तथा ॥” विन्दतीति विन्दः पालकः स्वामी वा । विन्द + शः । गवां गोसमूहानां विन्दः ।) गवाध्यक्षः । (गवां शास्त्रमयीनां वाणीनां विन्दः पतिः ।) बृहस्पतिः । इति मेदिनी ॥ (गौडपादाचार्य्य- शिष्यः योणिविशेषः । अयं हि परमहंस- परिव्राजकाचार्य्यस्य भगवतः शङ्करस्य गुरुः । यथा, माधवीये सङ्क्षिप्तशङ्करजये । ५ । १०१ । “तस्योपदर्शितवतश्चरणौ गुहायां द्वारे न्यपूजयदुपेत्य स शङ्करार्य्यः । आचार इत्युपदिदेश स तत्र तस्मै गोविन्दपादगुरवे स गुरुर्यतीनाम् ॥” अनेन च योगिप्रवरेण गोविन्देन बौधायनधर्म्म- विवरणं बौधायनधर्म्मसूत्रभाष्यञ्च प्रणीतमिति श्रूयते ततो बौद्धमतमालोक्य रससाराख्यग्रन्थो- ऽपि विरचित इति दृश्यते । यथा, रससारे ५ म पटले । “बौद्धानाञ्च मतं ज्ञात्वा रससारः कृतो मया ॥” पञ्जावस्थशिखजातीनां गुरुभेदः । योऽसौ गुरु- गोविन्द इति नाम्नोदाहृतः ॥ गाः मनः- प्रधानानीन्द्रियाणि तेषां विन्दः प्रवर्त्तयिता चेतयिता वा । अन्तर्यामी आत्मेत्यर्थः ।) परमब्रह्म । यथा, -- “तत्र यद्यसमर्थस्त्वं ज्ञानयोगे महामते ! । क्रियायोगे दिवा रात्रौ तत्परः सततं भव ॥ करोषि यानि कर्म्माणि तानि देवे जगत्पतौ । [] समर्पयस्व भद्रं ते ततः कर्म्म प्रहास्यसि ॥ शुभाशुभपरित्यागी क्षीणे निःणेषकर्म्मणि लयमाप्स्यसि गोविन्दं तद्ब्रह्म परमं महत् ॥” तन्नाममाहात्म्यं यथा, -- “ये तिष्ठन्तः स्वपन्तश्च गच्छन्तश्चलिते क्षुते । संकीर्त्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः ॥” इति च वहिपुराणे यमानुशासननामाध्यायः ॥ (अस्य ध्यानं यथा, -- “फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीन्पं नयनोत्पलार्च्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥”)
📄 मूल मुद्रित पृष्ठ (2-365-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬