ग्रह(णि)णी स्त्री गृह्णाति रोगिणोदेहम् ग्रह--अनि वा ङीप् । १ पित्तधराख्ये कलाभेदे २ तदाश्रिते रोगभेदे ग्रवाहिकायां च तद्रोगस्थाननिदानाद्युक्तं सुश्रुते यथा “दुष्यति ग्रहणी जन्तोरग्निसादनहतुभिः । अति- सारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः । भूयः सन्दू- षितो वह्निर्ग्रहणीमभिदूषयेत् । तस्मात्कार्य्यः परी- हारस्त्वतीसारे विरिक्तवत् । यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा । षष्ठी पित्तधरा नाम या कला परिकी- र्त्तिता । पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्त्तिता । ग्रहण्यां बलमग्निर्हि स चापि ग्रहणीश्रितः । तस्मा- त्संदूषिते वह्नौ ग्रहणी सम्प्रदुष्यति । एकशः सर्वशश्चैव दोषैरत्यर्थमूर्च्छितैः । सा दुष्टा बहुशोभुक्तमाममेव विमु- ञ्चति । पक्वं वा सरुजं पूति मुहुर्ब्बद्धं मुहुर्द्रवम् । ग्रहणी- रोगमाहुस्तमायुर्वेदविदो जनाः । तस्योत्पत्तौ विदाहान्न- सदनालस्यतृट्क्लमाः । बलक्षयोऽरुचिः कासः कर्णक्ष्वेडा- न्त्रकूजनम् । अथ जाते भवेज्जन्तुः शूनपादकरः कृशः । पर्व्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहबान् । उद्गिरे- च्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् । प्रसेकमुखवैरस्यतम- कारुचिपीडितः । वाताच्छूनाधिकैः पायुहृत्पार्श्वोदरम- स्तकैः । पित्तात्सदाहैर्गुरुभिः कफात्त्रिभिस्त्रिलक्षणैः । दोषवर्ण्णनखैस्तद्वद्विण्मूत्रनयनाननैः । हृत्पाण्डूदरगुल्मा र्शःप्लीहाशङ्की च मानवः” । “नानाविधद्रव्यचौरो जायते ग्रहणीयुतः” शाता० । तस्याः कर्मभेदविपाकतोक्ता । तस्या महारोगत्वमदाह्यशब्दे उक्तम् “वृद्धस्य ग्रहणीरोगो नागृहीत्वा निवर्त्तते” वैद्य० ।
📄 मूल मुद्रित पृष्ठ (2752,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।