🕉️ 20 November 2026, Friday · 07:25:34 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

ग्रहणी
grahaṇī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
संग्रहणी (पेचिश) (2.6.55) प्रवाहिका
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
ग्रहणी १ संज्ञा स्त्री॰ [सं॰] दे॰
१. सुश्रुत के अनुसार उदर में पक्वाशय और आमाशय के बीच की एक नाड़ी जो अग्नि या पित्त का प्रधान आधार है ।
२. इस नाड़ी के दूषित होने से उत्पन्न एक प्रकार का रोग जिसमें खाया हुआ पदार्थ पचता नहीं और ज्यों का त्यों दस्त की राह से निकल जाता है । वि॰ दे॰ संग्रहणी । यौ॰—ग्रहणीहर = लौंग ।
ग्रहणी पु २ संज्ञा स्त्री॰ [सं॰ ग्रहण] ग्रहण करने की क्रिया । ग्रहण । उ॰—ग्रहणो मैं सिवनेम सहणी में अहीस ।— रा॰ रू॰, पृ॰ ९७ ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ग्रहणी f. an imaginary organ supposed to lie between the stomach and the intestines (the small intestines or that part of the alimentary canal where the bile assists digestion and from which vital warmth is said to be diffused), Suśr.
= ˚णी-गद, Aṣṭāṅg. iii, 8; Hcat. i, 7
ग्रहणी f. of ˚ण, q.v.
📄 मूल मुद्रित पृष्ठ (372,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ग्रहणिः, --णी f. 1 An imaginary organ supposed to lie between the stomach and the intestines. --2 The small intestines or that part of the alimentary canal where the bile assists digestion and from which vital warmth is diffused. --3 Diarrhœa, dysentery. --Comp. --हरं cloves.
📄 मूल मुद्रित पृष्ठ (0473-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
ग्रह(णि)णी स्त्री गृह्णाति रोगिणोदेहम् ग्रह--अनि वा ङीप् । १ पित्तधराख्ये कलाभेदे २ तदाश्रिते रोगभेदे ग्रवाहिकायां च तद्रोगस्थाननिदानाद्युक्तं सुश्रुते यथा “दुष्यति ग्रहणी जन्तोरग्निसादनहतुभिः । अति- सारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः । भूयः सन्दू- षितो वह्निर्ग्रहणीमभिदूषयेत् । तस्मात्कार्य्यः परी- हारस्त्वतीसारे विरिक्तवत् । यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा । षष्ठी पित्तधरा नाम या कला परिकी- र्त्तिता । पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्त्तिता । ग्रहण्यां बलमग्निर्हि स चापि ग्रहणीश्रितः । तस्मा- त्संदूषिते वह्नौ ग्रहणी सम्प्रदुष्यति । एकशः सर्वशश्चैव दोषैरत्यर्थमूर्च्छितैः । सा दुष्टा बहुशोभुक्तमाममेव विमु- ञ्चति । पक्वं वा सरुजं पूति मुहुर्ब्बद्धं मुहुर्द्रवम् । ग्रहणी- रोगमाहुस्तमायुर्वेदविदो जनाः । तस्योत्पत्तौ विदाहान्न- सदनालस्यतृट्क्लमाः । बलक्षयोऽरुचिः कासः कर्णक्ष्वेडा- न्त्रकूजनम् । अथ जाते भवेज्जन्तुः शूनपादकरः कृशः । पर्व्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहबान् । उद्गिरे- च्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् । प्रसेकमुखवैरस्यतम- कारुचिपीडितः । वाताच्छूनाधिकैः पायुहृत्पार्श्वोदरम- स्तकैः । पित्तात्सदाहैर्गुरुभिः कफात्त्रिभिस्त्रिलक्षणैः । दोषवर्ण्णनखैस्तद्वद्विण्मूत्रनयनाननैः । हृत्पाण्डूदरगुल्मा र्शःप्लीहाशङ्की च मानवः” । “नानाविधद्रव्यचौरो जायते ग्रहणीयुतः” शाता० । तस्याः कर्मभेदविपाकतोक्ता । तस्या महारोगत्वमदाह्यशब्दे उक्तम् “वृद्धस्य ग्रहणीरोगो नागृहीत्वा निवर्त्तते” वैद्य० ।
📄 मूल मुद्रित पृष्ठ (2752,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
ग्रहणी, स्त्री, (ग्रहणि + “कृदिकारान्तादक्तिनः ।” इति ङीष् ।) अग्न्यधिष्ठाननाडी । स्वनाम- ख्यातरोगः । तस्य निदानसम्पाप्ती यथा, -- “अतीसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः । भूयः सन्दूषितो वह्निर्ग्रहणीमपि दूषयेत् ॥ एकैकशः सर्व्वशश्च दोषैरत्यर्थमूर्च्छितैः । सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ॥ पक्वं वा सरुजं पूति मुहुर्ब्बद्धं मुहुर्द्रवम् । ग्रहलीरोगमाहुस्तमायुर्व्वेदविदो जनाः ॥” * ॥ तस्य पूर्व्वरूपं यथा, -- “पूर्व्वरूपन्तु तस्येदं तृष्णालस्यं बलक्षयः । विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ॥” तस्य वातिकस्य निदानरूपे । “कटुतिक्तकषायातिरूक्षसन्दुष्टभोजनैः । पसितानशनात्यध्ववेगनिग्रहमैथुनैः ॥ मारुतः कुपितो वह्निं संछाद्य कुरुते गदान्- । तम्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ॥ कण्ठास्यशोषः क्षुत् तृष्णा तिमिरं कर्णयोः स्वनः । [] पार्श्वोरुवङ्क्षणग्नीवारुगभीक्ष्णं विसूचिका ॥ हृत्पीडाकार्श्यदौर्ब्बल्यं वैरस्यं परिकर्त्तिका । गृद्धिः सर्व्वरसानाञ्च मनसः सदनं तथा ॥ जीर्णे जीर्य्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च । स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः ॥ चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत् । पुनः पुनः सृजेद्वर्च्चः श्वासकासार्द्दितोऽनिलात् ॥” पैत्तिकस्य तस्य निदानरूपे । “कट्वजीर्णविदाह्याम्लक्षाराद्यैः पित्तमुल्वणम् । आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् ॥ सोऽजीर्णं नीलपीताभं पीताभः सार्य्यते द्रवम् । पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्द्दितः ॥” श्लैष्मिकस्य तस्य निदानरूपे । “गुर्व्वतिस्निग्धशीतादिभोजनादतिभोजनात् । भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः ॥ तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः । आस्योपदेहमाधुर्य्यकासष्ठीवनपीनसाः ॥ हृदयं मन्यते स्त्यानसुदरं स्तिमितं गुरु । दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम् ॥ भिन्नामश्लेष्मसं सृष्टगुरुवर्च्चःप्रवर्त्तनम् । अकृशस्यापि दौर्ब्बल्यमालस्यञ्च कफात्मके ॥ पृथग्वांतादिनिर्द्दिष्टं हेतुलिङ्गसमागमे । त्रिदोषं निर्दिशेदेवं तेषां वक्ष्यामि भेषजम् ॥” तस्यासाध्यस्य लक्षणं यथा, -- “लिङ्गैरसाध्यग्रहणीविकारो यैस्तैरतीसारगदो न सिध्येत् । वृद्धस्य नूनं ग्रहणीविकारो हत्वा तनुं नो विनिवर्त्तते च ॥” इति माधवकरः ॥ तस्य चिकित्सा यथा, गारुडे १७४ अध्याये । “चिकित्साथ ग्रहण्यास्तु ग्रहणी चाग्निनाशिनी । चित्रकक्वाथकल्काभ्यां ग्रहणीघ्नं शृतं हविः ॥” * ॥ हरिरुवाच । “मरीचं शृंङ्गवेरञ्च कुटजत्वचमेव च । पानाच्च ग्रहणी नश्येत् शशाङ्ककृतशेखर ! ॥” इति तत्रैव १८७ अध्यायः ॥ “अङ्कोठमूलकर्षार्द्धं पिष्टं तण्डुलवारिणा । सर्व्वातीसारग्रहणीं पीतं हरति भूतप ! ॥ मरीचशुण्ठीकुटजत्वक्चूर्णन्तु गुडान्वितम् । क्रमात्तत् द्विगुणं पीतं ग्रहणीव्याधिनाशनम् ॥” इति तत्रैव १८९ अध्यायः ॥ * ॥ अथ सामान्यग्रहणीरोगस्य चिकित्सा । “ग्रहणीमाश्रितं रोगमजीर्णवदुपाचरेत् । लङ्घनैर्द्दीपनीयैश्च सदातीसारभेषजैः ॥ दोषं सामं निरामञ्च विद्यादत्रातिसारवत् । अतीसारोक्तविधिना तस्यामञ्च विपाचयेत् ॥ पेयादिपटुलघ्वन्नं पञ्चकोलादिभिर्युतम् । दीपनानि च तक्रञ्च ग्रहण्यां योजयेद्भिषक् ॥ कपित्थविल्वचाङ्गेरीतक्रदाडिमसाधिता । यवागूः पाचयत्यामं शकृत् संवर्त्तयत्यपि ॥” सं वर्त्तयति घनीकरोति ॥ * ॥ अथ तक्रम् । तत्र गोदघिगुणाः । [] “गव्यं दध्युत्तमं बल्यं पाके स्वादु रुचिप्रदम् । पवित्रं दीपनं स्निग्धं पुष्टिकृत् पवनापहम् ॥ उक्तं दध्नामशेषाणां मध्ये गव्यं गुणाधिकम् ॥” अथ महिषीदधिगुणाः । “माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत्
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "ग्रहणी" आता है (5)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें