घृतपूरः, पुं, (घृतेन पूर्य्यते इति । पुरी ङ य पूर्त्तौ + कर्म्मणि अप् । प्रचुरघृतपाच्यत्वादेवास्य तथात्वम् ।) पिष्टकविशेषः । यथाह राजवल्लभः । “मर्द्दितां समितां क्षीरनारिकेलघृतादिभिः । अवग्राह्य घृते पक्त्रा घृतपूरोऽयमुच्यते ॥ घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः । रक्तपित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः ॥” तत्पर्य्यायः । पिष्टपूरः २ घृतवरः ३ घार्त्तिकः ४ । इति हेमचन्द्रः । ३ । ६४ ॥ (अस्य पाक- प्रकारादि यदुक्तं चिन्तांमणौ । “क्षीरेण मर्द्दितं चूर्णं गोघूमानां सुगालितम् । विस्तार्य्य सर्पिषा पाच्यं कटाहेऽथ सितान्वितम् ॥ घृतपूरोऽयमुद्दिष्टः कर्पूरमरिचान्वितः ॥” नारिकेलजो यथा, -- “समिता मर्द्दिता क्षीरे नारिकेलसितार्द्रकैः । अवगाह्य घृते पाच्या घृतपूरोऽपरः स्मृतः ॥” दुग्धजो यथा, -- “पाकपिण्डीकृतं क्षीरं शर्कराचूर्णमिश्रितम् । घृतपूरविनिर्म्माणं कारयेत् स्वल्पसर्पिषि ॥” शालिभवो यथा, -- “सुशालिपिष्टं दुग्धन्तु कथितं वस्त्रगालितम् । खण्डयुक्तं घृते पक्वं घृतपूरो भवेदयम् ॥” कशेरुभवो यथा, -- “कशेरुचूर्णं निःक्षिप्य पाकपिण्डीकृतं पयः । निर्म्माणं घृतपूराणां शर्करासहितं भवेत ॥” [] आम्रजो यथा, -- “पक्वाम्रस्य घृते तप्ते रसस्त्वनलपिण्डितः । शुद्धशर्करया योज्यो घृतपूरो यदृच्छया ॥ क्षीरमाद्यं स्वरूपं हि खण्डं चूर्णं ततः स्मृतम् । योजिते यो विशेषोऽत्र तदाख्यास्वर्णसंज्ञितः ॥ घृतपूरो गुरुर्हृष्यो हृद्यः पित्तानिलापहः । सद्यः प्राणप्रदो बल्यः सुरुच्योऽग्निप्रदीपनः ॥ शृङ्गाटकसुखानामप्येवं स्यात् घृतपूरकः । विचार्य्य वस्तुसंयोगं तद्गुणानपि चाहरेत् ॥”)
📄 मूल मुद्रित पृष्ठ (2-397-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।