चण्डालः, पुं, (चण्डते कुप्यतीति । चडि कोपे + “पतिचण्डिभ्यामालञ् ।” उणां । १ । ११६ । इत्या- लञ् । यद्वा, चण्डं विकटं अलं अलङ्कारो यस्य इत्युज्ज्वलदत्तः ।) वर्णसङ्करजातिविशेषः । चाँडाल इति भाषा । स तु ब्राह्मणीगर्भे शूद्रौरसाज्जातः । इति पराशरपद्धतिः ॥ तत्पर्य्यायः । प्लवः २ मातङ्गः ३ दिवाकीर्त्तिः ४ जनङ्गमः ५ निषादः ६ श्वपचः ७ अन्तेवासी ८ चाण्डालः ९ पुक्कसः १० । इत्यमरः । २ । १० । १९ ॥ जलङ्गमः ११ निशादः १२ श्वपक् १३ पुक्कशः १४ पुक्कषः १५ । इति तट्टीका ॥ निष्कः १६ । इति त्रिकाण्ड- शेषः ॥ तस्याकृतिर्यथा, रामायणे । “अथ रात्र्यां व्यतीतायां तस्यां राजा बभूव ह । चण्डालदर्शनो राम ! सद्य एव दुराकृतिः ॥ नीलपीताम्बरधरो रक्ताम्बरकृतोत्तरः । संरब्धताम्रधोराक्षः करालो हरिपिङ्गलः ॥ ऋक्षचर्म्मनिवासी च लौहाभरणभूषितः ॥” श्मशानचण्डालस्य निवासकर्म्मादि यथा, -- “चण्डालश्वपचानान्तु वहिर्ग्रामात् प्रतिश्रयः । अपपात्राश्च कर्त्तव्या धनमेषां श्वगर्द्दभम् ॥ वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् । कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥ न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः । अबान्धवं शवञ्चैव निर्हरेयुरिति स्थितिः ॥ वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥” (एतैर्हतस्य पशोर्मांसशुद्धिमाह मनुः । ५ । १३१ । “श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरबवीत् । क्रव्याद्भिश्च हतस्यान्यैश्चाण्डालाद्यैश्च दस्युभिः ॥”) क्रूरकर्म्मा । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (स्त्रियां ङीष् । तन्त्रोक्तशक्तिविशेषः ॥)
📄 मूल मुद्रित पृष्ठ (2-418-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।