जपयज्ञ पु० जपएव यज्ञः । जपरूपे यज्ञे तद्भेदादिकं हारी- तेनोक्तं यथा “विविधो जपयज्ञः स्यात्तस्य तत्त्वं निबोधत । वाचिकश्च उपांशुश्च मानसश्च त्रिधाकृतिः । त्रयाणा- मपि यज्ञानां श्रेष्ठः स्यादुत्तरीत्तरः । यदुच्चनीचोच्चरितैः शब्दैः स्पष्टपदाक्षयैः । मन्त्रमुच्चारयन् वाचा जप यज्ञः स वाचिकः । शनैरुच्चारयन् मन्त्रं किञ्चिदोष्ठौ प्रचालयेत् । किञ्चित् श्रवणयोग्यः स्यात् स उपांशु- र्जपः स्मृतः । धिया पदाक्षरश्रेण्या अवर्णमपदा- क्षरम । मन्त्रार्थचिन्तनाभ्यान्तु तदुक्तं मानसं स्मृतम् । जपेन देवता नित्यं स्तूयमाना प्रसीदति । प्रसन्ने विपुलान् भोगान् प्राप्नुवन्ति मनीषिणः । राक्षसाश्च पिशाचाश्च महासर्पाश्च भीषणाः । जपितान्नोपसर्पन्ति दूरादेव प्रयान्ति ते । छन्दऋष्यादि विज्ञाय जपेन्मन्त्र मतन्त्रितः” । “विधियज्ञाज्जपयज्ञो विशिष्टो दश- भिर्गुणैः । उपांशुः स्यात् शतगुणः साहस्रो मानस स्मृतः” । “ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्यं कलां नार्हन्ति षोडशीम्” मनुः “जपयज्ञप्रसिद्ध्यर्थं विद्याञ्चाध्यात्मिकीं जपेत्” याज्ञ० “यज्ञानां लपयज्ञोऽस्मि” गीता ।
📄 मूल मुद्रित पृष्ठ (3037,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।