जम्बूः, स्त्री, (जम्यते भक्ष्यते इति । जमु अदने + “अन्दूदृन्फूजम्ब्विति ।” उणां १ । ९५ । इति कूः ।) नागदमनी । इति राजनिर्घण्टः ॥ वृक्षविशेषः । जाम इति भाषा । तत्पर्य्यायः । सुरभिपत्रा २ नीलफला ३ श्यामला ४ महा- स्कन्धा ५ राजार्हा ६ राजफला ७ शुकप्रिया ८ मोदमोदिनी ९ । तत्फलगुणाः । कपायत्वम् । मधुरत्वम् । श्रमपित्तदाहकण्ठार्त्तिशोषकृमि- दोषश्वासातिसारकफकासविनाशित्वम् । विष्ट- म्भित्वम् । रोचनत्वम् । पाचनत्वञ्च । इति राजनिर्घण्टः ॥ गुरुत्वम् । स्वादुत्वम् । शीत- लत्वम् । अग्निसंदूषणत्वम् । रूक्षत्वम् । वात- कारित्रम् । इति राजवल्लभं ॥ सा बृहत्- [] क्षुद्रमेदेन द्विविधा । तत्र बृहत्याः पर्य्यायः । महाजम्बूः १ महापत्रा २ राजजम्बूः ३ बृहत्- फला ४ । इति रत्नमाला ॥ फलेन्द्रः ५ नन्दः ६ महाफला ७ सुरभिपत्रा ८ । एतत्फलगुणाः । विष्टम्भित्वम् । गुरुत्वम् । रोचनत्वम् । इति भावप्रकाशः ॥ क्षुद्रायाः पर्य्यायः । सूक्ष्म- कृष्णफला १ दीर्घपत्रा २ मध्यमा ३ । वन- जम्बूपर्य्यायः । भूमिजम्बूः १ काकजम्बूः २ नादेयी ३ शीतपल्लवा ४ । इति रत्नमाला ॥ सूक्ष्मपत्रा ५ जलजम्बुका ६ । तत्फलगुणाः । ग्राहित्वम् । रूक्षत्वम् । कफपित्तास्रदाह- नाशित्वञ्च । इति भावप्रकाशः ॥ तत्फलस्य पर्य्यायः । जम्बु २ जाम्बवम् ३ । इत्यमरः । । २ । ४ । १९ ॥ (स्वनामख्याता नदी । यथा, मात्स्ये । १२० । ६७ । “मेरोः पार्श्वात् प्रभवति ह्रदश्चन्द्रप्रभो महान् । जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं स्मृतम् ॥”)
📄 मूल मुद्रित पृष्ठ (2-514-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।