अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ
279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ
देवनागरी में लिखें, या रोमन में (IAST: dharma, jñāna · ITRANS/HK: dharma, j~nAna, kRSNa) — रोमन अपने-आप देवनागरी में बदल जाएगा। अंग्रेज़ी अर्थ-शब्द (जैसे sun, water) से संस्कृत शब्द भी खोज सकते हैं। मात्रा/श-ष-स की भूल होने पर निकटतम शब्द मिल जाएगा।
जातिधर्म संज्ञा पुं॰[सं॰] १. जाति या वर्ण का धर्म । २. ब्राह्मण, क्षत्रिय और वैश्य आदि का अलग अलग कर्तव्य । जिस जाति में मनुष्य उत्पन्न हुआ ही, उसका विशेष आचार या कर्तव्य । विशेष—प्राचीन काल में अभियोगों का निर्णय करते हुए जाति— धर्म का आदार किया जाता था ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
जातिधर्म्म पु० ६ त० । ब्राह्मणादीनां धर्मभेदे । स च भा० शा० ६० अ० दर्शितो यथा “व्राह्मणस्य तु यो धर्मस्तन्ते वक्ष्यामि केवलम् । इममेव महाराज! धर्ममाहुः पुरातनम् । स्वाध्यायाभ्य- सनञ्चैव तत्र कर्म समाप्यते । तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वस्वकर्मणि । अकुर्व्वाणं विकर्म्माणि शान्तं प्रज्ञानतर्पि- ताम । कुर्व्वीतापत्यसन्तानमथो दद्याद्यजेत च । संविभज्य हि भोक्तव्यं धनं सद्भिरितीर्य्यते । परिनिष्ठितकार्य्यस्तु [] स्वाध्यावेनैव ब्राह्मणः । कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते । क्षत्त्रियस्यापि यो धर्मस्तन्ते वक्ष्यामि भारत! । दद्याद्राजन्न याचेत यजेत न च याजयेत् । नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् । नित्योद्युक्तो दस्युबधे रणे कुर्य्यात् पराक्रमम् । ये तु क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः । य एवाहवजेतारस्त एषां लोक- जित्तमाः । अविक्षतेन देहेन समराद्यो निवर्त्तते । क्षत्त्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः । एवं हि क्षत्त्रबन्धूनां मार्गमाहुः प्रधानतः । नास्य कृत्यतमं किञ्चिदन्यद्दस्युनिवर्हणात् । दानमध्ययनं यज्ञो राज्ञां क्षेमं विधीयते । तस्माद्राज्ञा विशेषेण योद्धव्यं धर्म- मीप्सता । स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्व्वा महीपतिः । धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत् परिनिष्ठित कार्य्यस्तु नृपतिः परिपालनात् । कुर्य्यादन्यन्न वा कुर्य्यादैन्द्रो राजन्य उच्यते । वैश्यस्यापि हि यो धर्म- स्तन्ते वक्ष्यामि शाश्वतम् । दानमध्ययनं यज्ञः शौचेन धनसञ्चयः । पितृवत् पालयेद्वैश्यो युक्तः सर्व्वान् पशू- निह । विकर्म तद्भवेदन्यत् कर्म यत् स समाचरेत् । रक्षया स हि तेषां वै महत् सुखमवाप्नुयात् । प्रजा- पतिर्हि वैश्याय सृष्ट्वा परिददौ पशून् । ब्राह्मणाय च राज्ञे च सर्वाः परिदददे प्रजाः । तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् । षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् । लब्धाच्च सप्तमं भागं तथाऽशृङ्गे कलाऽखुरे । शस्यानि सर्ववीजानामेषा सांवत्सरी भृतिः । न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति । वैश्यो चेच्छति नान्येन रक्षितव्याः कथञ्चन । शूद्रस्यापि हि यो धर्म- स्तन्ते वक्ष्यामि भारत! । प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् । तस्माच्छूद्रस्य वर्णानां परिचर्य्या विधी- यते । तेषां शुश्रूषणाच्चैव महत् सुखमवाप्नुयात् । शूद्र एतान् परिचरेत्त्रीन् वर्णाननुपूर्वशः । सञ्चयाश्च न कुर्व्वीत जातु शूद्रः कथञ्चन । पापीयान् हि धनं लब्ध्वा वशे कुर्य्याद्गरीयसः । राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः । तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योप- जीवनम । अवश्यभरणीयो हि वर्णानां शूद्र उच्यते । छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च । यातयामानि देयानि शूद्राय परिचारिणे । अधार्याणि विशीर्णानि वसनानि द्विजातिभिः । शूद्रायैव प्रदेयानि तस्य धर्मधनं हि तत् । यच्च किञ्चिदुद्विजातीनां शूद्रः शुश्रूषुराव्रजेत् । [] कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः । देयः पिण्डोऽनपत्याय भत्तेव्यौ वृद्धदुर्बलौ । शूद्रेण तु न हातव्यो भर्त्ता कस्याञ्चिदापदि । अतिरेकेण भर्त्तव्यो भर्त्ता द्रव्यपरिक्षये । न हि स्वमस्ति शूद्रस्य भर्तृहार्य्य- धनो हि सः । उक्तस्त्रयाणां वर्णानां यज्ञस्तस्य च भारत! । स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते । तस्माच्छूद्रः पाकयज्ञैर्यजेताव्रतवान् स्वयम् । पूर्णपात्र- मयीमाहुः पाकयज्ञस्य दक्षिणाम् । शूद्रः पैजवनो नाम सहस्राणां शतं ददौ । ऐन्द्राग्न्येन विधानेन दक्षिणा- मिति नः श्रुतम् । यथा हि सर्ववर्णानां यज्ञस्तस्यैव भारत! । अग्र्यः स
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
हर शब्द पर: सभी कोशों के अर्थ एक साथ, व्याकरण (लिंग/शब्द-भेद), व्युत्पत्ति, शास्त्रीय उद्धरण, मूल मुद्रित पृष्ठ का लिंक, अमरकोश के पर्याय, उससे बने समास/शब्द, और वे शब्द जिनके अर्थ में यह शब्द आता है। अर्थ में किसी शब्द को छूकर उसका भी अर्थ देख सकते हैं।
स्रोत व श्रेय:
हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।