जाह्नवी, स्त्री, (जह्नोरपत्यं स्त्री । जह्नु + अण् + ङीप् ।) गङ्गा । इति हेमचन्द्रः । ४ । १४७ ॥ एतन्नामकारणं यथा, -- “जानुद्वारा पुरा दत्त्वां जह्नुः संपीय कोपतः । तस्य कन्यास्वरूपा च जाह्नवी तेन कीर्त्तिता ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ * ॥ तस्यां तिथिविशेषे स्नानफलं यथा, -- “सामान्यदिवसस्नानसङ्कल्पं शृणु सुन्दरि ! । पुण्यं दशगुणञ्चैव मौषलस्नानतः परम् ॥ ततस्त्रिंशद्गुणं पुण्यं रविसंक्रमणे दिने । अमायाञ्चापि तत्तुल्यं द्विगुणं दक्षिणायने ॥ ततो दशगुणं पुण्यं नराणाञ्चोत्तरायणे । चातुर्म्मास्यां पौर्णमास्यामनन्तं पुण्यमेवच ॥ अक्षयायाञ्च तत्तुल्यं नैतद्वेदनिरूपितम् । असंख्यपुण्यफलदमेतेषु स्नानदानकम् । सामान्यदिवसस्नानात् दानात् शतगुणं भवेत् ॥ मन्वन्तरायां देवेशि ! युगाद्यायां तथैव च । माघस्य सितसप्तम्यां भीष्माष्टम्यां तथैव च ॥ ततोऽपि द्बिगुणं पुण्यं नन्दायां भवदुर्ल्लभे ! । दशहरादशम्याञ्च युगाद्यादि समं फलम् ॥ नन्दासमञ्च वारुण्यां महत्पूर्व्वे चतुर्गुणम् । ततश्चतुर्गुणं पुण्यं द्बिमहत्पूर्व्वके सति ॥ पुण्यं कोटिगुणञ्चैव सामान्यस्नानतो हि यत् । [] चन्द्रोपरागसमये सूर्य्ये दशगुणं ततः ॥ पुण्येऽप्यर्द्धोदये काले ततः शतगुणं फलम् । सर्व्वेषामेव सङ्कल्पं वैष्णवानां विपर्य्ययः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
📄 मूल मुद्रित पृष्ठ (2-534-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।