🕉️ 20 November 2026, Friday · 08:08:22 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

भागीरथी
bhāgīrathī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
भागीरथी १ संज्ञा स्त्री॰ [सं॰]
१. गंगा नदी । जाह्नवी । विशेष— कहते हैं कि राजा भगीरथ ही इस लोक में गंगा को लाए थे, इसीलिये उसका यह नाम पड़ा ।
२. गंगा की एक शाखा का नाम जो बंगाल में है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
भागीरथी f. N. of the Ganges (or of one of the 3 main streams or branches of it, viz. the great western branch; cf. नव-द्वीप), MBh.; Kāv. &c.
भागीरथी f. of ˚रथ, in comp.
📄 मूल मुद्रित पृष्ठ (751,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
भागीरथी [भगीरथेन सानीता तेन भागीरथी स्मृता] 1 N. of the river Ganges; भागीरथीनिर्झरशीकराणां Ku. 1. 15. --2 N. of one of the three main branches of the Ganges.
📄 मूल मुद्रित पृष्ठ (0812-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
भागीरथी स्त्री भागीरथेन सानीता तेन भागीरथी स्मृतां ब्रह्मव० प्र० रव० उक्ते गङ्गारूपे नदीभेदे ।
📄 मूल मुद्रित पृष्ठ (4650,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
भागीरथी, स्त्री, (भगीरस्येयम् । भगीरथ + अण् । ङीप् ।) गङ्गा । इत्यमरः । १ । १० । ३१ ॥ पृथिव्यां तस्यावतरणम् । यथा, -- सूत उवाच । “ततो भगीरथो राजा तपः परमदुश्चरम् । कृत्वा सन्तोषयामास उमाकान्तं महेश्वरम् ॥ धारणायानुमत्वा तं जगाम ब्रह्मणोऽन्तिकम् । ततो भगीरथः प्राह गङ्गा ब्रह्मन् ! विसृज्यताम् ॥ स तच्छ्रुत्वा वचस्तस्य सम्मान्य विबुधप्रियम् । गङ्गां प्रस्थापयामास सापतद्ब्रह्मणोऽन्तिकात् ॥ वायुना प्रेर्य्यमाणापि आकाशपथगा नदी । विख्याताकाशगङ्गेति तत्र संसेविता गजैः ॥ विष्णोः पदं समायाता तस्माद्विष्णुपदीति सा । पूज्यमाना सुरैः सिद्धैर्मुनिविद्याधरोरगैः ॥ सुरालयमनुप्राप्ता तस्माद्देवनदी तु सा । तस्मात् प्रपतिता गङ्गा शम्भोः शिरसि संस्थिता ॥ धृतैकेनैव तेनापि शम्भुना योगमायया । दिव्यं वर्षशतं साग्रं पुनराराधितेन वै ॥ मुक्ता भगीरथेनैव मलहन्त्री विनिर्गता । जटाजूटात् पपातोर्द्धे मेरोस्तस्मात्ततोऽगमत् ॥ देवैः परिवृता गङ्गा हेमकूटञ्च पर्व्वतम् । मन्दरञ्चैव कैलासं हिमवन्तञ्च पर्व्वतम् ॥ तामायान्तीं तु रोधाय स्वलीनो नाम दानवः । पार्व्वतं रूपमास्थाय वर्षाणान्तु शतैर्द्विजाः ॥ ततो भगीरथो राजाराधयामास कौशिकम् । स तुष्टः प्रददौ नागं वाहनं वै भगीरथः ॥ तमारुह्यागमत्तत्र यत्र रुद्धा भगीरथी । तेन नागेन तं दैत्यं संविदार्य्य न सङ्गतः ॥ शतधा तां समाधाय मूर्द्धन्यैरावणो गजः । महीतलं समापेदे स यावन्नागसाह्वयम् ॥ तस्माद्व्याघटनाद्विप्रा अभून्नागपुरं वरम् । प्लावयन्ती महीं गङ्गा जह्नोराश्रममभ्यगात् ॥ तां दृष्ट्वाथ पपौ सोऽपि प्रसृत्या कुपितो मुनिः । जह्रुना नाशितां दृष्ट्वा गङ्गां त्रिपथगां नदीम् ॥ सशोकस्तोषयामास जह्नुं भगीरथो मुनिम् । मुमोच कर्णरन्ध्रेण गङ्गा स दक्षिणेन ताम् ॥ एतस्माज्जाह्रवी भूता सुता तस्य मुनेस्तथा । ततः सा विविधान् देशान् पर्व्वतांश्च तथा- श्रमान् ॥ संप्लाव्य वारिणा भूयो जगाम पूर्व्वसागरम् ॥ यत्र तत्रोदकं तस्थौ तस्याः पुण्यमभूद्द्विजाः । सुतीर्थं सर्व्वमर्त्यानां तारणं पापनाशनम् ॥ ततः सम्पूरयामास समुद्रं सर्व्वतो दिशम् । प्रपन्नं सागरैः सर्व्वं ततः पातालमाविशत् ॥ सागराणां तनोस्तस्मात् संप्लाव्य वारिणा ततः । [] देवैः संपूज्यमानापि जगाम ब्रह्मणोऽन्तिकम् ॥ जग्मुस्ते सागराः स्वर्गं ब्रह्मणोपहताश्च ये । रक्षकास्ते विनिर्द्दिष्टा गङ्गाया ब्रह्मणा स्वयम् ॥ भवद्भिरनिशं नॄणां कर्त्तव्यं विघ्ननाशनम् ॥ सूत उवाच । एतद्बः कथितं सर्व्वं यथावतरणं दिवः । गङ्गायाश्चैव माहात्म्यं श्रूयतां गदतो मम ॥” इत्याद्ये वह्निपुराणे गङ्गावतरणनामाध्यायः ॥ तस्या मुख्यनामानि यथा, -- वराह उवाच । “धर्म्मस्तु द्रवरूपेण ब्रह्मणा निर्म्मितः पुरा । यद्वै गङ्गेति विख्याता शृणु स्तोत्रं वसुन्धरे ! ॥ किन्तैर्नामसहस्रैस्तु मुख्यामुख्यैः सुविस्तरैः । यानि नामानि मुख्यानि तानि वक्ष्याम्यनुक्रमात् ॥ गङ्गा भागीरथी पुण्या जाह्रवी सुरनिम्नगा । विष्णुपादाब्जसम्भूता शम्भोः शिरसि संस्थिता ॥ सुमेरुशृङ्गसंस्पृष्टा हिमाचलंकृताश्रया । शङ्खकुन्देन्दुधवला महापातकनाशिनी ॥ नदीश्वरी त्रिपथगा वैष्णवी सुरसुप्रिया । धर्म्मद्रवी भोगवती बिन्ध्यपाषाणदारिणी ॥ क्षमा शान्तिः प्रजाशान्तिः पुण्यदा पूतिका शिवा । महानदी शतमुखी शुक्ला मकरवाहिनी ॥ ब्रह्महस्तात् परिभ्रष्टा सौम्यरूपातिशोभना । मुनिभिः पूजिता सर्व्वैः सर्व्वैर्देवैर्नमस्कृता ॥ महायज्ञमयी देवी मर्त्यानामुपकारिणी । सर्व्वत्र दुर्लभा गङ्गा त्रिभिः स्थानैर्विशेषतः ॥ गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ इदं स्तोत्रं मया ख्यातं पूर्व्वमुक्तं स्वयम्भुवा । यः पठेत् प्रात
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "भागीरथी" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें