ड, डकारः । स व्यञ्जनत्रयोदशवर्णः टवर्गतृतीय- वर्णश्च । अस्योच्चारणस्थानं मूर्द्धा । इति व्याक- रणम् ॥ (यथा, शिक्षायाम् । १७ । “स्युर्मूर्द्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥”) वङ्गीयवर्णमालायामस्य लेखनप्रकारो यथा, “ऊर्द्ध्वाधःक्रमतो रेखा मध्ये त्वाकुञ्चिता तथा । लक्ष्मीर्व्वाणी भवानी च क्रमशस्तत्र संस्थिता ॥ ब्रह्मरूपा तथा मात्रा महाशक्तिः प्रकीर्त्तिताः । ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता मम । जवासिन्दूरसङ्काशां वराभयकरां पराम् ॥ त्रिनेत्रां वरदां नित्यां परमोक्षप्रदायिनीम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “डकारं चञ्चलापाङ्गि ! सदा त्रिगुणसंयुतम् पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा । चतुर्ज्ञानमयं वर्णं आत्मादितत्त्वसंयुतम् ॥ पीतविद्युल्लताकारं डकारं प्रणमाम्यहम् ।” तस्य २४ चतुर्विंशतिनामानि यथा, -- “डः स्मृतिर्द्दारुको नन्दिरूपिणी योगिनी प्रियः । कौमारी शङ्करस्त्रासस्त्रिवक्रो नदको ध्वनिः ॥ [] दुरूहो जटिली भीमा द्बिजिह्वः पृथिवी सती । कोरगिरिः क्षमा कान्तिर्नाभिः स्वाती च लोचनम् ॥” इति नानातन्त्रशास्त्रम् ॥ (पद्यादौ अस्य प्रथमोपन्यासे फलं शोभा । यदुक्तं वृत्तरत्नाकरटीकायाम् । “डः शोभां ढो विशोभां भ्रणणमथ च णस्तस्तु खं थस्तु युद्धम् ॥”)
डः, पुं, (डयते उड्डीयते भक्तानां हृदयाकाशे यः । डी + बाहुलकात् डः ।) शिवः । (डीयते आकाशमार्गे नभोगुणत्वादिति । डी + डः ।) शब्दः । त्रासः । इत्येकाक्षरकोषः ॥ वाडवाग्निः । इति मेदिनी । डे, १ ॥
📄 मूल मुद्रित पृष्ठ (2-573-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।