णु स्तुतौ अदा० पर० सक० वेट् । नौति प्रणौति अनावीत्- अनौषीत् नुनाव नुनुविथ नुनुविव । नोता नविता नविष्यति नोष्यति नोतव्यं नवितव्यं नुतः । नुतिः नुत्वा प्रणुत्य । “येन नुवन्तमहिंसं पिणक्” ऋ० ६ । १७ । १० । “द्विधाप्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव” कुमा० । “सादरं नैमि तं भक्त्या श्रीगोपीजनवल्लभम्” स्क० पु० । “सैन्यं नीलं नुनाव च” भट्टिः । णिच् नावयति णिच् सन् । नुनावयिषति सन् नुण्णूषते यङ् नोनूयते । आ + सम्यग्स्तवने आत्म० । “पतत्त्रिणः शुभामन्दमानु- बानास्त्वजिह्लदन्” भट्टिः । प्र + प्रकर्षेण स्तवभे “एददेवं विद्वानक्षरं प्रणौति” छा० उ० ।
णु गतौ भ्वा० आत्म० सक० अमोट् निघण्टुः । गवते नवते इत्यादि गतिकर्मसु मिरुक्तोक्तेः नवते । “अभीनवन्ते अदूहः प्रियमिन्द्रस्य काम्यम्” ऋ० ९ । १० । १ । “अभीनवन्ते अभिगच्छन्ति” भा० । “हरिं नवन्ते अवता [] उदन्यवः” ऋ० ९ । ८६७२७ “नवन्ते गच्छन्ति” भा० । “गावो न धेनवोऽनवन्त” १० । ९५ । ६
📄 मूल मुद्रित पृष्ठ (3199,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।