तण्डुलः, पुं, (तण्ड्यते आहन्यते इति । तड आघाते + “सानसिवर्णसीति ।” उणां ४ । १०७ । इति उलच् । यद्बा, “वृञ्लुटितनितडिभ्य उलन् तण्डश्च ।” उणां । ५ । ९ । इतिउलन् तण्डादेशश्च ।) विडङ्गम् । इति मेदिनी । ले, ९६ ॥ (“पुंसि क्लीवे विडङ्गः स्यात् कृमिघ्नो जन्तुनाशनः । तण्डुकश्च तथा वेल्लममोघा चित्रतण्डुला ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) तण्डुलीयशाकम् । इति शब्दरत्नावली ॥ घान्यादिनिकरः । इति मेदिनी । ले, ९६ ॥ चाउल इति भाषा । (यथा, पञ्चतन्त्रे । ३ । ५५ । “सङ्गतिः श्रेयसी पुंसां स्वपक्षे च विशेषतः । तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ सुदुर्ज्जरः स्वादुरसो बृंहणस्तण्डुलो नवः । सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः ॥ द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य तु । यदाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा ॥ अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्द्दिशेत् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥) भृष्टतण्डुलगुणाः । सुगन्धित्वम् । कफनाशित्वम् । रूक्षत्वम् । पित्तकारित्वञ्च । इति राजवल्लभः ॥
📄 मूल मुद्रित पृष्ठ (2-580-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।