तन्द्रा, स्त्री, (तत् द्रातीति । तत् + द्रा + कः । निद्रातन्द्रेति नान्तत्वं निपात्यते । यद्बा, तन्द्र अवसादे + भावे घञ् ततष्टाप् ।) निद्रा । आलस्यम् । इति हेमचन्द्रः ॥ (यथा, हठ- योगप्रदीपिकायाम् । ३ । ३९ । “न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा ॥”) तस्या निदानं यथा । “तमोवातकफात्तन्द्रा ।” इति । लक्षणञ्च । “इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः । निद्रार्त्तस्येव यस्येहा तस्य तन्द्रा विनिर्द्दिशेत् ॥” इति माधवकरः ॥ (कारणपूर्व्वकमस्याः सम्प्राप्तिर्लक्षणं चिकित्- सितञ्च यथा, चरके सिद्धिस्थाने नवमेऽध्याये । “मधुरस्निग्धगुर्व्वम्लसेवनाच्चिन्तनाद्भयात् । शोकाद्व्याध्यनुषङ्गाच्च वायुनोदीरितः कफः ॥ यदासौ समवस्कन्द्य हृदयं हृदयाश्रयान् । समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते ॥ हृदये व्याकुलीभावो वाक्चेष्टेन्द्रियगौरवम् । मनोबुद्ध्यप्रसादश्च तन्द्राया लक्षणं मतम् ॥ कफघ्नं तत्र कर्त्तव्यं शोधनं शमनानि च । व्यायामो रक्तमोक्षश्च भोज्यञ्च कटुतिक्तकम् ॥”)
📄 मूल मुद्रित पृष्ठ (2-586-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।