🕉️ 20 November 2026, Friday · 12:57:35 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

तक्षक
takṣaka
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
तक्षक m. (Pāṇ. viii, 2, 29, Kāś.) ‘a cutter’, see काष्ठ-, वृक्ष-
a carpenter, L.
Viśvakarman, L.
the Sūtra-dhāra or speaker in the prelude of a drama, L., Sch.
N. of a tree, L.
of a Nāga prince (cf. ˚क्ष), AV. viii, 10, 29; TāṇḍyaBr. xxv, 15; ŚāṅkhGṛ. iv, 18, 1; Kauś.; MBh. &c.
of a son of Prasena-jit, BhP. ix, 12, 8
See also ˚क्ष.
📄 मूल मुद्रित पृष्ठ (431,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
तक्षकः [तक्ष् ण्वुल्] 1 A carpenter, wood-cutter (whether by caste or profession). --2 The chief actor in the prelude of a drama (i. e. the सूत्रधार). --3 N. of the architect of the gods. --4 N. of one of the principal [] Nāgas or serpents of the Pātāla, son of Kaśyapa and Kadru; (saved at the intercession of the sage Āstīka from being burnt down in the serpent-sacrifice performed by king Janamejaya, in which many others of his race were burnt down to ashes).
📄 मूल मुद्रित पृष्ठ (0525-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
तक्षक पु० तक्ष--ण्वुल् । १ विश्वकर्मणि शब्दर० । २ द्रुमभेदे हेमच० । “सूचकात् विप्रकन्यायां जातस्तक्षक उच्यते । उशनसोक्ते सङ्कीर्णजातिभेदे (छुतार) ३ सूत्रधारे कद्रु- गर्भे कश्यपात् जाते अष्टनागान्तर्गते ४ नागभेदे “अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः । कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः” ति० त० । “काद्रवेयाश्च बलिनः सहस्रममितौजसः । सुपर्णवशगा नागा जज्ञिरेऽनेक- मस्तकाः । तेषां प्रधानाः सततं शेषवासुकितक्षकाः” हरिवं० ३ अ० । “योऽसौ वृद्धस्य तातस्य तथा कृच्छ्र- गतस्य ह । स्कन्धे मृतं समास्राक्षीत् पन्नगं राजकि- ल्विषी । त पापमातसक्रुद्धस्तक्षकः पन्नगेश्वरः । आशी- विषन्तिग्मतेजा मद्वाक्यबलचीदितः । सप्तरात्रादितो नेता गमस्य सदनं प्रति । द्विजानामवमन्तारं कुरूणामयश- स्करम्” भा० आ० ४१ । [] तेन च परीक्षितोदंशनकथा भा० आ० ४३ अ० दृश्या यथा “अथ शुश्राव गच्छन् स तक्षको जगतीपतिम् । मन्त्रै- र्गदैर्विषहरैरक्ष्यमाणं प्रयत्नतः । सूत उवाच । स चिन्तयामास तदा मायायोगेन पार्थिव! । मया वञ्च- यितव्योऽसौ क उपायो भवेदिति । ततस्तापसरूपेण प्राहिणोत् स भुजङ्गमान् । फलदर्भोदकं गृह्य राज्ञे नागोऽथ तक्षकः । तक्षक उवाच । गच्छध्वं यूयमव्यग्रा राजानं कार्य्यवत्तया । फलपुष्पोदकं नाम प्रतिग्राह यितुं नृपम् । सौतिरुवाच । ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः । उपनिन्युस्तथा राज्ञे दर्भानपः फलानि च । तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्य्य- वान् । कृत्वा तेषाञ्च कार्य्याणि गम्यतामित्युवाच तान् । गतेषु तेषु नागेषु तापसच्छद्मरूपिषु । अमात्यान् सुहृदश्चैव प्रोवाच स नराधिपः । भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः । तापसैरुपनीतानि फलानि सहिता मया । ततो राजा ससचिवः फलान्यादातु- मेच्छत । विधिना सम्प्रयुक्तो वै ऋषिवाक्येन तेन तु । यस्मिन्नेव फले नागस्तमेवाभक्षयत् स्वयम् । ततो भक्ष- यतस्तस्य फलात् कृमिरभूदणुः । ह्रस्वकः कृष्णनयन- स्ताम्रवर्णोऽथ शौनक! । स तं गृह्य नृपश्रेष्ठः सचिवा- निदमब्रवीत् । अस्तमभ्येति सविता विषादद्य न मे भयम् । सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम् । तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् । ते चैन- मन्ववर्त्तन्त मन्त्रिणः कालचोदिताः । एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह । कृमिकं प्राहसत् तूर्णं मुमूर्षुर्नष्टचेतनः । प्रहसन्नेव भोगेन तक्षकेणान्ववेष्ट्यत । तस्मात् फलाद्विनिष्क्रम्य यद्राज्ञे विनिवेदितम् । वेष्ट- यित्वा च वेगेन विनद्य च महास्वनम् । अदशत् पृथि- वीपालं तक्षकः पन्नगेश्वरः” अधिकं कश्यपशब्दे उक्तम् “मसूरं निम्बपत्रञ्च योऽत्ति मेषगते रवौ । अति- रोषान्वितस्तस्य तक्षकः किं करिष्यति” ति० त० । तक्षकनागश्चैन्द्रस्य सखा खाण्डववनवासी अर्ज्जु- नेन खाण्डववनस्य दाहकाले न न्तम्य दाहः तत्कथा “निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी । शतक्रतु स- माभाष्य महागम्भीरनिस्वना । न ते सखा स निहत- स्तक्षको भुजगोत्तमः । दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ” भा० आ० २२८ अ० । ५ काष्ठादितक्षणकर्त्तृ- मात्रे त्रि० ।
📄 मूल मुद्रित पृष्ठ (3202-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
तक्षकः, पुं, (तक्षतीति । तक्ष + ण्वुल् ।) पातालस्थाष्टनागान्तर्गतनागविशेषः । स कश्य- पात् कद्रुगर्भे जातः इन्द्रसखः । अस्य वासः खाण्डववने आसीत् । अयं परीक्षितं दष्टवान् । इति श्रीभागवतम् ॥ (अयं हि क्षपणकरूपधारी उतङ्कस्य मुनेर्गुरुदक्षिणार्थमानीते कुण्डले ऽपहृत्य नागलोकं गतवान् । यथा, महा- भारते । १ । ३ । १२७ । “तस्य तंक्षको दृढमासन्नः स तं जग्राह । गृहीत- मात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा घरण्यां विवृतं महाविलं प्रविवेश ॥ तक्ष तनूकरणे + “क्वुन् शिल्पिसंज्ञयोः ।” उणां । २ । ३२ । इति क्वुन् ।) त्वष्टा । इत्यमरः । ३ । ३ । ४ ॥ विश्वकर्म्मा । इति शब्दरत्नावली ॥ द्रुमभेदः । इति हेमचन्द्रः ॥ सूत्रधारः । इत्य- मरटीकासारसुन्दरी ॥ (स्वनामख्यातः प्रसेन- जित्-पुत्त्रः । यथा, भागवते । ९ । १२ । ८ । “ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः ॥” छेदके, त्रि । यथा, रामायणे । २ । ८० । २ । “तथा वर्द्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥”)
📄 मूल मुद्रित पृष्ठ (2-578-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "तक्षक" आता है (3)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें