तप्तमाष पु० तप्तं माषमितं सुवर्णादिकं यत्र । दिव्यभेदे । तद्विधिः वीरमित्रोदये दर्शितो यथा तत्र पितामहः “तप्तमाषस्य वक्ष्यामि विधिमुद्धरणे शुभम् । कारयेदायसम्पात्रं ताम्रं वा षोडशाङ्गुलम् । चतुरङ्गुलखातन्तु मृण्मयं वापि मण्डलम्” । कर्ष- षोडशांशप्रमितं मण्डलं सूर्य्यमण्डलाकारं वर्त्तुल- मिति यावत् । एतादृशं पात्रं घृततैलाभ्यां पूरयेदि- त्याह स एव “पूरयेद्घृततैलाभ्यां पलैर्विंशतिभिस्तु तत् । सुवर्णं माषकन्तस्मिन् सुतप्ते निःक्षिपेत्ततः । अङ्गुष्ठाङ्गुलिमूलेन तप्तमाषकमुद्धरेत्” इति । सुवर्णमाष- कङ्कर्षषोडशांशप्रमाणम् । सुवर्णग्रहणं रूप्यमाषनिवृ- त्त्वर्थम् । तन्माषपरिमितं हिरण्यं ताम्रं वा पिण्डी- कृत्य निःक्षिपेत् । अङ्गुष्ठाङ्गुलिमूलेन अङ्गुष्ठतर्जनीम- ध्यमाभिरित्यर्थः । इदञ्च तप्तमाषोद्धरणम् प्राड्विवा केन घृततैलयोस्तापे समारब्धे धर्मावाहनादिशोध्यशिरः पत्रारीपणान्तं सर्वसाधारणं कर्म विधाय “त्वमग्ने । वेदाश्चत्वारः” इत्यादिना अग्निदिव्यप्रकरणोक्तेम मन्त्रे- णाभिमन्त्र्य कारयितव्यम् शोध्यस्तु याज्ञवल्क्योक्तेन “त्वमग्ने! सर्वभूतानामित्यादि” मन्त्रेणाभिमन्त्र्य तप्त- माषमुद्धरेत् । अतएव वृहस्पतिः “समुद्धरेत्तैलघृतात् सुत- प्तात्तप्तमाषकमिति” । कल्पान्तरमाह स एव “सौवर्णे राजते ताम्रे वायसे मृण्मयेऽपि वा । गव्यं घृतमुपा- दाय तदग्नौ तापयेच्छुचिः । सौवर्णीं राजतीं ताम्री- मायसीं वा सुशोभनाम् । सलिलेन सकृद्धौतां प्रक्षिपे- [] त्तत्र मुद्रिकाम् । भ्रमद्वोचितरङ्गाद्ये ह्यनखस्पर्शगोचरे । परीक्षेदार्द्रपर्णेन चटत्कारसवोषकमिति” । ततः प्राड्विवाको धर्मावाहनादिपत्रारोपणान्तं साधारणं कर्म कृत्वा घृतमभिमन्त्रयेत् । मन्त्रस्तु तेनैव दर्शितः “तत- श्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत् । परं पवित्रममृतं घृत! त्वं यज्ञकर्मसु । दह पावक! पापं त्वं हिमशीतो भवेति च” । ततः प्राड्विवाकः शोध्येन “त्वमग्ने! सर्वभूतानामित्यादि मन्त्रेणाभिमन्त्रणं कारयित्वा मुद्रिकां ग्राहयेदित्याह स एव “उपोषितन्ततः स्नात- मार्द्रवासःसमावृतम् । ग्राहयेन्मुद्रिकान्तान्तु घृतमध्यग- तान्तथा । प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः” इति । अत्र तर्जन्यैव मुद्रिकोद्धरणं कार्य्यं तस्यां परीक्षाभिधानात् पक्षद्वयेऽपि शुद्ध्यवधारणोपायं वृहस्प- तिराह “कराग्रं योन धुनुयात् विस्फोटो वा न जायते । शुद्धो भवति धर्मेण पितामहवचो यथेति” । कालिकापुराणेऽपि “न धुनेयुः कराग्रन्तु यस्य रक्तं न जायते । विस्फोटाद्यैस्तथा दोषैः स शुद्धो यस्य नोद्गतमिति” । रक्तं रक्तवर्णम् । यस्य कराग्रं विस्फो- टाद्यैर्नोद्गतमित्यन्वयः । पितामहोऽपि “यस्य विस्फो- टका न स्युः शुद्धोऽसावन्यथाऽशुचिरिति” । तण्डुलपरीक्षाशब्दे अधिकं दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (3235-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।