तमालं, क्ली, (तम्यते काङ्क्ष्यते इति । तमु काङ्क्षा- याम् + “तमिविशिविडीति ।” उणां । १ । ११७ । इति कालन् ।) पत्रकम् । इति राजनिर्घण्टः ॥
तमालः, पुं, (तमु काङ्क्षायाम् + कालन् ।) वृक्ष- विशेषः । तत्पर्य्यायः । कालस्कन्धः २ तापिञ्छः ३ । इत्यमरः । २ । ४ । ६८ ॥ तापिञ्जः ४ । इति भरतः ॥ नीलतालः ५ तमालकः ६ नीलध्वजः ७ कालतालः ८ महाबलः ९ । (यथा, भागवते । ३ । १३ । ३३ । “तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग ॥”) अस्य गुणाः । मधुरत्वम् । बल्यत्वम् । वृष्यत्वम् । शिशिरत्वम् । गुरुत्वम् । कफपित्ततृषादाह- श्रमशान्तिकरत्वञ्च । इति राजनिर्घण्टः ॥ तिलकम् । (यथा, कुट्टनीमते । १६ । “यस्यामुपवनवीथ्यां तमालपत्राणि युवतिवदने च । नखरप्रहाररणितं तन्त्रीवाद्येषु सुरतकलहेषु ॥” तमालस्तापिञ्छवृक्षः युवतिवदनपक्षे तिलक- मिति ॥) खड्गः । वरुणवृक्षः । इति मेदिनी । ले, ९७ ॥ क्वष्णखदिरः । इति शब्दचन्द्रिका ॥ वृक्षभेदे वंशत्वचि च पुं क्ली । इति लिङ्गादि- संग्रहे अमरभरतौ ॥
📄 मूल मुद्रित पृष्ठ (2-591-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।