🕉️ 20 November 2026, Friday · 02:17:54 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

तांबूल
tāṃbūla
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
तांबूल संज्ञा पुं॰ [सं॰ ताम्बूल]
१. पान । नागवल्ली दल ।
२. पान का बीड़ा ।
३. किसी प्रकार का सुंगधित द्रव्य जो भोजनोतर खाया जाय (जैन) ।
४. सुपारी ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ताम्बूल m. (= Prākṛt ˚bola fr. ताम्रगुल) = ˚बल, W.
ताम्बूल n. betel, (esp.) its pungent and aromatic leaf (chewed with the areca-nut and catechu and sometimes caustic lime and spices as a carminative and antacid tonic), Hariv. 8454 and 8457; Suśr.; VarBṛS. &c.
the areca-nut, L.
📄 मूल मुद्रित पृष्ठ (443,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
तांबूलं 1 The areca-nut. --2 The leaf of piper-betel, which together with the areca-nut, catechu, chunam, and spices is usually chewed after meals; तांबूलभृतगल्लोऽयं भल्लं जल्पति मानुषः K. P. 7; रागो न स्खलितस्तवाधरपुटे तांबूलसंवर्धितः Ś. Til. 7. --Comp. --अधिकारः the office of carrying the betel-box; Pt. 1. --करंकः, --पेटिका a betel-box; (Mar. पानदान, पानपुडा). --दः, --धरः, --वाहकः a servant attached to men of rank to carry the betel-box and to provide them with तांबूल whenever necessary. --वल्ली the betel-plant; R. 6. 64.
📄 मूल मुद्रित पृष्ठ (0535-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
ताम्बूल न० तम--ऊलच् वुगागमः दीर्घश्च गौ० ङीष् तस्याः पत्रमण् । (पान) ख्याते १ नागवल्लीदले । २ क्रमुके च मेदि० । “ताम्बूलं कटूतिक्तमुष्णमधुरं क्षारं कषायान्वितं वातघ्नं कृमिनाशनं कफहरं दुर्गन्धनिर्नाशनम् । वक्त्रस्याभरणं विशुद्धिकरणं कामाग्निसन्दीपनं ताम्बूलस्य सखे! त्रयो- दश गुणाः स्वर्गेऽपि ते दुर्लभाः” अपि चाहुः “ताम्बूलं विशदं रुच्यं तीक्ष्णीष्णं तुवरं सरम् । रस्यं तिक्तं कटु क्षारं रक्तपित्तकरं लघु । वल्यं श्लेष्मास्यदौर्गन्ध्यमल- वातश्रमापहम्” भाव० प्र० । “अनिधाय मुखे पर्णं पूगं [] स्वादयते नरः । मतिभ्रंशो दरिद्रः स्यादन्ते न स्मरते हरिम्” राजनि० । भावप्र० दिनचर्य्यायामुक्तं यथा “धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः । पूगकर्पूर कस्तूरीलवङ्गसुमनःफलैः । फलैः कटुकषायैर्वा मुख- वैशद्यकारिभिः । ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः । धूमेन अगुर्वादिधूमेन । अपोह्य कफं दूरीकृत्य कषायकटुतिक्तकैः फलैः कर्पूरकस्तूरीलव- ङ्गादिभिः पूगैः क्रमुकैः सुमनःफलैः जातीफलैः एलाहरीतक्यादिफलैः । रात्रौ सुप्तोत्यिते स्नाते भुक्ते वान्ते च सङ्गरे । सभायां विदुषां राज्ञां कुर्य्यात्ताम्बूल चर्वणम् । ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनन्तु परं सरम् । तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु । वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम् । मख वैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् । हनुदन्तमल- ध्वंसि जिह्वेन्द्रियविशोधनम् । मुखप्रसेकशमनं गला- मयविनाशनम् । नवं तदेव मघुरं कषायानुरसं गुरु । वलासजननं प्रायः पत्रशाकगुणं स्मृतम् । वङ्गदेशो- द्भवं पर्णं परं कटुरसं सरम् । पाचनं पित्तजनकमुष्णं कफहरं स्मृतम् । पर्णं पुराणमकटु खुल्लकन्तनु पाण्डु- रम् । विशेषाद् गुणवद्वेद्यमन्यद्धीनगुणं स्मृतम् । खदिरः कफपित्तघ्नश्चूर्णं वातबलासनुत् । संयोगत स्त्रिदोघ्नं सौमनस्यं करोति च । मुखवैशद्यसौगन्ध्य- कान्तिसौष्ठवकारकम् । प्रभाते पूगमधिकं मध्याह्ने खदिरं तथा । निशासु चूर्णमधिकं ताम्बूलं भक्षयेत् सदा । आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता । तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत् । पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः । जीर्णं पर्णं हरत्यायुः सिरा बुद्धिविनाशिनी । आद्यं विषोपमं पीतं द्वितीयं भेदि दर्जरम । तृतीयादनु पातव्य सुधातुल्य रसाय- नम् । ताम्बूलं नातिसेवेत न विरिक्तो बुभुक्षितः । देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः । शोषः पित्ता- निलास्र स्यादतिताम्बूलचर्वणात् । विषमूर्च्छामदा- र्त्तानां क्षयिणां रक्तपित्तिनाम् । “विना पर्णं मुखे दत्त्वा गुवाकं भक्षयेद्यदि । तावद्भवति चण्डालो यावद्गङ्गां न गच्छति” कर्मलोचनम् । “ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचरारिणाम् । तपस्विनाञ्च विप्रेन्द्र! गोमांससदृशं ध्रुवम्” इति ब्रह्म- वै० व्र० ख० । मार्कण्डेयः “भूयोऽप्याचम्य कर्तव्यं [] ततस्ताम्बूलभक्षणम्” वशिष्ठः “सुपूगञ्च सुपर्णञ्च सुचूर्णेन समन्वितम् । अदत्त्वा द्विजदेवेभ्यस्ताम्बूलं वर्जयेद्बुधः” “ताम्बूलद्वयमासनञ्च लभते यः कान्यकुब्जेश्वरात्” नैष० “ताम्बूलाक्तं दशनमसकृद्दर्शयन्तीह चेटी” सा० द० । २ पर्णवृक्षे स्त्री गौरा० ङीष् । “ताम्बूलीनां दलैस्तत्र रचिताः पानभूमयः” रघुः ।
📄 मूल मुद्रित पृष्ठ (3273-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
ताम्बूलं, क्ली, (तम + “खर्जिपिञ्जादिभ्य ऊरो- लचौ ।” उणां । ४ । ९० । इति ऊलच् बुगा- गमो दीर्घश्च ।) पर्णम् । पान इति भाषा । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्ण- त्वम् । मधुरत्वम् । क्षारत्वम् । कषायत्वम् । वातकृमिकफदुःखदोषनाशित्वम् । कामाग्नि- सन्दीपनत्वम् । स्त्रीसम्भाषणभूषणत्वम् । धृति- वक्त्रपाटवोत्साहकान्तिकारित्वम् । सुप्तोत्थिते भुक्ते च शस्तत्वम् । दन्तास्यदृग्गदे त्याज्यत्वम् । स्वर्गेऽपि दुर्लभत्वञ्च । इति राजवल्लभः ॥ अपि च । तीक्ष्णत्वम् । पीनसकासनाशित्वम् । रुच्यत्वम् । दाहकारित्वञ्च ॥ * ॥ कृष्णपर्णस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । कषायत्वम् । दाहवक्त्रजाड्यमलधारित्वञ्च ॥ * ॥ शुभ्रपर्णस्य गुणाः । श्लेष्मवातामयनाशित्वम् । पथ्यत्वम् । रुच्यत्वम् । दीपनत्वम् । पाचनत्वञ्च ॥ * ॥ सद्यस्त्रोटितताम्बूलभक्षणगुणाः । मुखरोगजाड्य- दोषवातारोचकरक्तमलविष्टम्भकान्तिकारित्वम् ॥ त्रिरात्रत्रोटितभूयोजलयोजितताम्बूलगुणाः । उत्तमत्वम् । रुचिबलकारित्वम् । त्रिदोषार्त्ति- नाशित्वञ्च ॥ * ॥ [] “शिरापर्णन्तु शैथिल्यं कुर्य्यात्तस्यास्रहृद्रसः । शीर्णं त्वग्दोषदन्तस्य भक्षिते तु सितासिते ॥ अनिधाय मुखे पर्णं पूगं स्वादयते नरः । मतिभ्रंशो दरिद्रः स्यादन्ते न स्मरते हरिम् ॥” इति राजनिर्घण्टः ॥ * ॥ “पर्णमूले वसेद्ब्याधिः पर्णाग्रे पापसञ्चयः । चूर्णपर्णं हरेदायुः शिरा बुद्धिविनाशिनी ॥ नायुरग्रे विषं मूले मध्येऽलक्ष्मीर्व्यवस्थिता । तस्मादग्रञ्च मूलञ्च मध्यं पर्णस्य वर्ज्जयेत् ॥ चूर्णाधिकं हरति गन्धमथाधिपूगं रागं तथाधिकदलञ्च सुगन्धिकारि । ताम्बूलमुत्तममिदं रसनाग्रभिन्न- पर्णं निशास्वधिकखण्डितपर्णमह्नि ॥ ताम्बूलं न हितं प्रोक्तं शरीरे रूक्षदुर्ब्बले । ज्वरास्यशोषपित्तास्रमदमूर्च्छाक्षिरोगिषु ॥ ताम्बूलात्युपयोगात् स्याच्छोषः पित्तानिलास्रता । देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः ॥” इति राजवल्लभः ॥ * ॥ “विना पणं मुखे दत्त्वा गुवाकं भक्षयेद्यदि । तावद्भवति चण्डालो यावद्गङ्गां न गच्छति ॥” इति कर्म्मलोचनम् ॥ * ॥ “ताम्बूलं विधवास्त्रीणां यतिनां ब्रह्मचारिणाम् । तपस्विनाञ्च विप्रेन्द्र ! गोमांससदृशं ध्रुवम् ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डम् ॥ * ॥ अस्य नामानि गुणाश्च । यथा, भावप्रकाशे । “ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी । ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम् ॥ वश्यं तिक्तकटुक्षारं रक्तपित्तकरं लघु । बल्यं श्लेष्मास्यदौर्गन्धमलवातश्रमापहम् ॥” क्रमुकम् । इति मेदिनी । ले, ९७ ॥
📄 मूल मुद्रित पृष्ठ (2-605-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "तांबूल" आता है (8)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें