तापदुःख न० तापरूपं दुःखम् । “पातञ्जलोक्ते दुःखभेदे “परिणामतापसस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः” सू० । “ते जन्मायुर्भोगाः पुण्य- हेतकाः सुखफलाः, अपुण्यहेतुकाः दुःखफला इति । यथा चेदं दुःखं प्रतिकूलात्मकं एवं विषय सुखकालेऽपि दुःखमस्त्येव प्रतिकलात्मकं योगिनः । कथं तदुपपद्यते” । “अथ का तापदुःखता सर्वस्य द्वेषानु- त्रिद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति । तत्रास्ति द्वेषजः कर्म्माशयः सुखसाधनानि च प्रार्थयानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनु- गृह्णात्युपहन्ति वेति परानुग्रहपीडाभ्यां धर्म्माधर्मा- वुपचिनोति स कर्म्माशयो लोभान्मोहाच्च भवती- त्येषा तापदुःखतोच्यते” भा० । “ते जन्मायुर्भोगा इति यद्यपि जन्मायुषोरेव ह्लादपरितापपूर्वभावितया तत्फलत्वं न तु भोगस्य ह्लादपरितापोदयानन्तरभाविन- स्तदनुभवात्मनस्तथाप्यनुभाव्यतया भोग्यतया भोगकर्म्म- तामात्रेण भोगफलत्वमिति मन्तव्यं नन्वपुण्यहेतुका जा- त्यायुर्भोगाः परितापफला भवन्तु हेयाः प्रतिकुलवेदनी- यत्वात् । कस्मात्? पुनः पुण्यहेतवस्त्यज्यन्ते सुखफलाः अनुकूलवेदनीयत्वात्, न चैषां प्रत्यात्मवेदनीयानुकूलता शक्या सहस्रेणाप्यनुमानागमैरपाकर्त्तुं, न च ह्लाद- परितापौ परस्पराविनाभूतौ यतो ह्लाद उपादीयमाने- नैव परितापोऽप्यवर्जनीयतयापतेत् तयोर्भिन्नहेतु- कत्वाद्भिन्नरूपत्वात् चेत्यत आह यथाचेदमिति” विवरणम् ।
📄 मूल मुद्रित पृष्ठ (3269,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।