तुत्थ, त् क स्तृतौ । इति कविकल्पद्रुमः ॥ (अदन्त चुरां-परं-सकं-सेट् ।) आद्ये पञ्चमस्वरः शेषो दन्त्यवर्गाद्ययुक्तस्थकारः । तुत्थयति तुत्थापयति । स्तृतिराच्छादनम् । इति दुर्गादासः ॥
तुत्थं, क्ली, (तुदति पीडयत्यनेन । तुद + “पातॄ- तुदेति ।” उणां २ । ७ । इति थक् । यद्बा, तुत्थ आच्छादने + अच् ।) खर्परीतुत्थम् । उपघातुमेदः । तुतिया इति भाषा । तत्- पर्य्यायः । नीलाञ्जनम् २ हरिताश्मम् ३ तुत्थ- कम् ४ मयूरग्रीवकम् ५ ताम्रगर्भम् ६ अमृ- तोद्भवम् ७ मयूरतूत्थम् ८ शिखिकण्ठम् ९ नीलम् १० । इति राजनिर्घण्टः ॥ तुत्थाञ्जनम् ११ शिखिग्रीवम् १२ वितुन्नकम् १३ मयूर- कम् १४ । इत्यमरः । २ । ९ । १०१ ॥ तूतकम् १५ मृषातुत्थम् १६ मृतामदम् १७ । इति शब्द चन्द्रिका ॥ अस्य गुणाः । कटुत्वम् । कषाय- त्वम् । उष्णत्वम् । श्वित्रनेत्रामयनाशित्वम् । सर्व्वविषदोषशमनत्वम् । वान्तिकारकत्वञ्च । इति राजनिर्घण्टः ॥ क्षारत्वम् । निर्म्मलत्वम् । लघुत्वम् । भेदकत्वम् । कृमिकण्डुकुष्ठकफनाशि- त्वञ्च । इति राजवल्लभः ॥ * ॥ “तुत्थं वितुन्नकं चापि शिखिग्रीवं मयूरकम् । [] तुत्थं ताम्रोपधातुर्हि किञ्चित्ताम्रेण तद्भवेत् ॥ किञ्चित्ताम्रगुणं तस्माद्बक्ष्यमाणगुणञ्च तत् । तुत्थकं कटुकं क्षारं कषायं वामकं लघु ॥ लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत् । विषाश्मकुष्ठकण्डूघ्नं खर्परं चापि तद्गुणम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे १ भागे ॥ (अस्य शोधनविधिर्यथा, -- “ओतोर्व्विष्ठासमं तुत्थं सक्षौद्रं टङ्गणाङ्घ्रियुक् । त्रिधा सुपुटितं शुद्धं वान्तिभ्रान्तिविवर्ज्जितम् ॥” अन्यच्च । “गन्धकेन समं तुत्थं तुत्थार्द्धेनार्द्धयामकम् । वान्तिभ्रान्ती यदा न स्तस्तदा सिद्धिं विनिर्द्दि- शेत् ॥” शोधितस्यास्य गुणा यथा, -- “तुत्थं सकटुकक्षारं कषायं विशदं लघु । लेखनं भेदि चक्षुष्यं कण्डूक्रिमिविषापहम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥) रसाञ्जनम् । ग्रावा । इत्युणादिकोषः ॥ अग्निः । इति संक्षिप्तसारे उणादिवृत्तिः ॥ अग्नौ पुं । इति हेमचन्द्रः ॥
📄 मूल मुद्रित पृष्ठ (2-632-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।