त्यज हानौ दाने च भ्वा० सक० पर० अनिट् । त्यजति अत्याक्षीत् तत्याज । त्यक्तव्यं त्याज्यम् त्यागः त्यक्तं त्यक्त्वा त्यागी । “त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्” चाणक्यः “योऽत्याक्षीत् संयुगं भयात्” भा० द्री० ९५ अ० “तं तत्याजाहितं पुत्रम्” रामा० २ । ३६ अ० । “नैव नीलिवर्णेन कदाचित् त्यज्यते” पञ्चत० । (शूराः) “मदर्थे त्यक्तजीविताः” गीता “प्रतिरोद्धा गुरोश्चैव त्यक्ताग्नि- र्वार्द्धुषिस्तथा” मनुः “न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति” मनुः “त्याज्यं दोषवदित्येके कर्म प्राहु- र्मनीषिणः । यज्ञदानतपः कर्म न त्याज्यमिति चापरे” गीता “ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः”--मनुः “चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु” वृ० स० ६० अ० । वेदे तु नि० । णलि तित्याज “यस्तित्याज सचि विदं सखा- यम्” ऋ० १० । ७१ । ६ । त्यागश्च स्वत्वध्वं सानुकूलव्यापारः न ममेदमित्याकारः । स च मूर्त्तद्रव्याणामेव भवति अमूर्त्त- जीवनादेर्वियोजनरूपः । उपसर्गपूर्वकस्य तत्तदुपसर्गद्यो- त्यार्थयुक्तत्यागे इति भेदः ।
📄 मूल मुद्रित पृष्ठ (3356,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।