त्रिवृत्(ता) पु० त्रीन् अवयवान् वृणोति वृ--क्विप् त्रिभिरव- यवैर्वृता वा । १(तेओडि) औषधिभेदे, अमरः “श्वेता त्रिवृद्रोचनी स्यात् स्वादुरुष्णा समीरहृत् । रूक्षा पित्तज्वरश्लेष्मपित्तशोथोदरापहा । श्वेतकृष्णपभेदेन द्विविधा त्रिवृदुच्यते । श्यामा त्रिवृत्ततो हीनगुणा तीव्रा विरेचिका । मूर्च्छादाहमदभ्रान्तिकण्ठोत्कर्षण- कारिणी” भावप्र० । वर्तनं वृत् त्रिः तिस्रः वृतो यत्र । एकस्य त्रिशब्दस्य त्रिवारे त्रिसंख्यान्विते च वृत्तिः तन्त्रोच्चारणात् । २ त्रिधात्रिगुणिते त्रि० । “विप्रस्योर्द्धवृतं त्रिवृत्” इति मनुः त्रिगुणितसूत्रत्रयस्यैवोपवीतरूपत्वा- त्तथार्थता । त्रिर्वर्त्तते वृत--क्विप् । मिश्रितेषु ३ तेजोजलान्नेषु च । “तासां त्रिवृतं त्रिवृतमेकैकां करवाणि” छा० उ० ४ त्रिगुणिते “यजेत वाश्वमेधेन स्वर्जिता गोषयेन वा । अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा” मनुः । त्रिभिरृग्यजुःसामभिर्वर्त्तते वृत--कर्तरि क्विप् । ५ यज्ञे पु० । “यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः” भा० शा० ४७ अ० । “त्रिवृत् यज्ञः शिरोऽस्य” नीलक० त्रिस्त्रिर्वर्तते सुज्गर्भस्य त्रिशब्दस्य वीप्सार्थत्वम् । ६ ऋग्विशेषाणां नवके । यथोक्तं सामसंहिताभाष्ये “लौकिको वाक्यगोवार्थस्त्रिवृदादेः समत्वतः । उभौ विध्यर्थवाक्यैकवाक्यत्वादस्त्विहान्तिमः । “त्रिवृद्बहिष्प- वमानम्” इति श्रुतौ त्रिवृच्छब्दस्य त्रेगुण्यं लोकसिद्धो- ऽर्थः वाक्यशेषादृक्--त्रयात्मकेषु सूक्तेष्ववस्थितानां बहि ष्पवमानात्मक--स्तोत्र--निष्पादन--क्षमाणाम् “उपास्वै गा- यता नरः (उ १ प्र० १२, ३ सू०) इत्यादीनामृचां नव- कमर्थः तत्र धर्म निर्णये वेदस्य प्रबलत्वेऽपि पद--पदार्थ- निर्णये लोकवेदयोः समान--बलवत्त्वात् उभावर्थौ विक- ल्पेन ग्रहीतव्यौ, इति चेत्--मैवम्, लौकिकार्थ--स्वी- कार पक्षे विधिवाक्ये त्रैगुण्यमर्थः, अर्थबाद--वाक्ये स्तोत्रियाणामृचां मवकम्, इत्येवं विध्यर्थवादयोर्वैयधि- करण्यादेकवाक्यत्वं न स्यात्, अतः एकवाक्यत्वाय स्तो- त्रियाणां नवकमेव विधिवाक्ये नियतोऽर्थः” ।
📄 मूल मुद्रित पृष्ठ (3382,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।