त्रिपुटा, स्त्री, (त्रीणि पुटानि दलवृत्तयो यस्याः ।) मल्लिका । सूक्ष्मैला । त्रिवृत् । इति मेदिनी । के, ४५ ॥ कर्णस्फोटा । स्थूलैला । रक्तत्रिवृत् । इति राजनिर्घण्टः ॥ देवीविशेषः । यथा, -- “ऋषिः संमोहनश्छन्दो गायत्त्री देवता पुनः । त्रिपुटाख्या द्बिरुक्तैस्तैर्व्वीजैरङ्गानि षट् क्रमात् ॥” अस्या रूपं यथा, -- “पारिजातवने रम्ये मण्डपे मणिकुट्टिमे । रत्नसिंहासने रम्ये पद्मे षट्कोणशोभिते ॥ अधस्तात् कल्पवृक्षस्य निषण्णां देवतां स्मरेत् । [] चापं पाशाम्बुजसरसिजान्यङ्कुशं पुष्पबाणान् संबिभ्राणां करसरसिजै रत्नमौलिं त्रिनेत्राम् । हेमाब्जाभां कुचभरनतां रत्नमञ्जीरकाञ्ची- ग्रैवेयाद्यैर्व्विलसिततनुं भावयेच्छक्तिमाद्याम् ॥ चामरादर्शताम्बूलकरण्डकसमुद्गकान् । वहन्तीभिः कुचार्त्ताभिर्दूतीभिः परिवारिताम् ॥ करुणामृतवर्षिण्या पश्यन्तीं साधकं दृशा ॥” इति तन्त्रसारः ॥
📄 मूल मुद्रित पृष्ठ (2-659-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।