त्वष्टा, [ऋ] पुं, (त्वेषति दीप्यतीति । त्विष दीप्तौ + “नप्तृनेतृत्वष्टृहोत्रिति ।” उणां । २ । ९६ । इति तृच् इतोऽत्वञ्च ।) आदित्यविशेषः । (यथा, महाभारते । १ । ६५ । १४-१५ । “अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः । ये राजन्नामतस्तांस्ते कीर्त्तयिष्यामि भारत ! ॥ धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा । एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते ॥” एते तु चाक्षुषस्य मनोरन्तरे तुषिता नाम देवा आसन् वैवस्वतेऽन्तरे तु द्वादश आदित्याः । इति विष्णुपुराणे । १ । १५ । १३१ -- १३३ ॥ तथा मात्स्ये च । ६ । ३ -- ५ ॥ त्वक्षति तनू- करोति काष्ठादिकं शिल्पकार्य्यत्वात् । तक्ष + तृच् ।) विश्वकर्म्मा । इति हेमचन्द्रः । ३ । ५८१ ॥ (यथा, माघे । ३ । ३५ । “त्वष्टुः सदाभ्यासगृहीतशिल्प- विज्ञानसम्पत्प्रसवस्य सीभा ॥” अयन्तु माघमासे सूर्य्यरथपरिभ्रमणाधिकारिणा- मन्यतमः । यथा, विष्णुपुराणे । २ । १० । १५ । “त्वष्टाथ जमदग्निश्च कम्बलोऽथ तिलोत्तमा । ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रोऽथ सत्तमः । माघमासे वसन्त्येते सप्त मैत्रेय ! भास्करे ॥” विश्वकर्म्मणः पुत्त्रविशेषः । यथा, विष्णुपुराणे । १ । १५ । १२२ । “तस्य पुत्त्रास्तु चत्वारस्तेषां नामानि मे शृणु । अजैकपादहिर्व्रध्नस्त्वष्टा रुद्रश्च बुद्धिमान् ॥” प्रजापतिविशेषः । यथा, महाभारते । ५ । ९ । ३ । “त्वष्टा प्रजापतिर्ह्यासीत् देवश्रेष्ठो महातपाः । स पुत्त्रं वै त्रिशिरसमिन्द्रद्रोहात् किलासृजत् ॥” महादेवः । यथा, महाभारते । १३ । १७ । १०३ । “धाता शक्रश्च विष्णु श्च मित्रख्वष्टा ध्रुवो धरः ॥”) वर्णसङ्करजातिविशेषः । इत्यमरः । २ । १० । ९ ॥ अस्य पर्य्यायः । काष्ठतट्शब्दे उत्पत्तिश्च सूत्र- धारशब्दे द्रष्टव्या ॥ (इन्द्रः । इति ऋग्वेद- भाष्ये सायङः । १ । ११७ । २२ ॥ असुरभेदः । इति तत्रैव सायङः । ३ । ४८ । ४ ॥)
📄 मूल मुद्रित पृष्ठ (2-668-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।