दधिघर्म्म पु० दधिसंस्कारके वैदिके कर्म्मभेदे । “दधिघर्म्मेण चरन्ति प्रवर्ग्यवांश्चेत्” आश्व० श्रौ० ५ । १३ । १ । दधिघर्मो नाम कर्मविशेषः” नारा० । स च कात्या० श्रौ० उक्तो यथा १० । १ । २० । “सप्रवर्ग्ये दधिघर्म्मः” सू० दध्या- हरेति प्रेषितो दधिघर्मार्थं दध्याहरति तच्च यागार्थ- त्वात् सान्नास्यधर्मेण वत्सापाकरणादिना संस्कार्य्यं तत्र दध्नो द्व्यहसाध्यत्वात् पूर्वस्मिन्नहनि प्रातःसवनिक दध्यर्थदोहानन्तरं दधिचर्मः दध्यर्थमपि रात्रौ दोह आत- ञ्चनान्तः कर्त्तव्यः । तत्सम्बन्धिनो वत्सापाकरणादयो- ऽप्यनेनैव क्रमेण कर्त्तव्याः प्रवर्ग्यवत्येवायं दधिवर्मः” [] कर्कः । तत्करणप्रकारमपि तदुत्तरसूत्रैराह यथा “उप- विश्य सदसः पुरस्तात् सपवित्रायामग्निहोत्रहवण्यां ग्रहणं ययोक्तम्” २१ सू० । तत् प्रतिप्रस्थात्राहृतदधि उत्तरवेदेः पश्चादासाद्यालभ्य ततः सदसः पश्चादुपविश्य सपवित्रायामग्निहोत्रहवण्यां शाखापवित्रेणाग्निहो- त्रहवण्याम यथोक्तं यथा प्रवर्ग्याध्यायोक्तं तथा ग्रहणं करोति अतो यावतीति मन्त्रान्ते स्थालीमुखेनै- वाग्निहोत्रहवण्यां निनयनं कर्त्तव्यम् । आनयनञ्च नि- नयनमेव” कर्कः विस्तरः तदुत्तरसूत्रेषु दर्शितः । तादृश- कर्मममुदायश्च दधिघर्मशब्दार्थः ।
📄 मूल मुद्रित पृष्ठ (3460-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।