दाक्षायणी, स्त्री, (दक्षस्यापत्यं स्त्री । दक्ष + फिञ् । गौरादित्वात् ङीष् ।) अश्विन्यादयो रेवत्यन्ताः सप्तविंशतिस्ताराः । इत्यमरः । १ । ३ । २१ ॥ दुर्गा । इति मेदिनी । णे, ९६ ॥ रोहिणीनक्षत्रम् । इति हेमचन्द्रः ॥ (दक्ष- कन्यामात्रम् । यथा, मार्कण्डेये । ५० । २१ । [] “बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयो- दशी । पत्न्यर्थे प्रतिजग्राह धर्म्मो दाक्षायणीः प्रभुः ॥” अदितिः । यथा, महाभारते । १ । ७५ । ९ । “त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा । मारीचः कश्यपस्तस्यामादित्यान् समजीजनत् ॥” कद्रुः । विनता । यथा, तत्रैव । १ । २२ । ५ । “जग्मतुः परया प्रीत्या परं पारं महोदधेः । कद्रुश्च विनता चैव दाक्षायण्यौ विहायसा ॥”) “दक्षञ्च तेषामारभ्य प्रजाः सम्यग्विवर्द्धिताः । तत्र दाक्षायणीपुत्त्राः सर्व्वे देवाः सवासवाः ॥ वसवोऽष्टौ च रुद्राश्च आदित्या मरुतस्तथा । सापि दक्षाय सुश्रोणी गौरी दत्ताथ ब्रह्मणा ॥ दुहितृत्वे पुरा याहि रुद्रेणोढा महात्मना । सा च दाक्षायणी देवी पुनर्भूत्वा नृपोत्तम ! ॥” इति वराहपुराणम् ॥ दन्तीवृक्षः । इति रत्नमाला ॥ * ॥
📄 मूल मुद्रित पृष्ठ (2-698-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।