दुरालभा, स्त्री, (दुःखेन आलभ्यते गृह्यते स्पृश्यते वासौ । दुर् + आ + लभ + खल् + टाप् । आगमविधेरनित्यत्वात् न नुम् ।) स्वनामख्यात- कण्टकयुक्तक्षुद्रवृक्षविशेषः । स यवासप्रभेदः । हिङ्गुथा इति ख्याता । तत्पर्य्यायः । दुरालम्भा २ धन्वयासः ३ ताम्रमूला ४ कच्छुरा ५ दुस्पर्शा ६ धन्वी ७ धन्वयवासकः ८ प्रबोधनी ९ सूक्ष्म- दला १० विरूपा ११ दुरभिग्रहा १२ दुर्लभा १३ दुःप्रधर्षा १४ । इति राजनिर्घण्टः ॥ यासः १५ यवासः १६ दुस्पर्शः १७ कुनाशकः १८ रोदनी १९ अनन्ता २० समुद्रान्ता २१ । इत्य- मरः । २ । ४ । ९२ ॥ गान्धारी २२ काषाया २३ । इति भावप्रकाशः ॥ धनुर्यासः २४ युवसः २५ कच्छरा २६ । इति शब्दरत्नावली ॥ विक- ण्ठकः २७ । इति जटाधरः ॥ (पद्ममुखी २८ । इति शब्दचन्द्रिका ॥) अस्या गुणाः । सार- [] दत्वम् । ज्वरच्छर्द्दिश्लेष्मपित्तविसर्पवेदनानाशि- त्वञ्च । इति राजवल्लभः ॥ कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । क्षारत्वम् । अम्लत्वम् । मधुरत्वम् । वातगुल्मप्रमेहनाशित्वञ्च । इति राजनिर्घण्टः ॥ “यवासस्य गुणैस्तुल्या बुधैरुक्ता दुरालभा ॥” इति भावप्रकाशः ॥ (गङ्गा । यथा, काशीखण्डे । २९ । ८८ । “दीर्घव्रता र्दीर्घदृष्टिर्दीप्ततोया दुरालभा ॥”) दुरालभनीये, त्रि ॥
📄 मूल मुद्रित पृष्ठ (2-726-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।