दुर्द्धर त्रि० दुःखेन धार्यते दुर् + धृ--कर्मणि खल् । १ नरकभेदे २ ऋषभौषधौ मेदि० ३ पारदे ४ भल्लातके राजनि० “दुर्द्धरं दुर्मुखञ्चैभौ शरैर्निन्ये यमक्षयम्” देवीमा० उक्ते ५ महिषा- सुरसेनापतिभेदे पु० । ६ परमेश्वरे पु० “दर्पहा दर्पदो दृप्तो दुर्द्धरोऽन्यापराजितः” विष्णु० सं० “न शक्यधारणा यस्य प्रणिधानादिषु सर्वोपाधिनिर्मुक्तत्वात्तथापि तत्प्रसादतः कैश्चित् दुःखेन हृदये धार्यते जन्मान्तरसहस्रेषु भावना योगात् तस्माद्दुर्द्धरः “क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचे तसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते” भग- वद्वचनात्” भा० । “सुभुजो दुर्द्धरो वाग्मी” विष्णुसं० अस्य चान्या व्युत्पत्तिः भाष्ये दर्शिता यथा “पृथिव्यादीन्यपि लोकधारकाण्यन्यैर्द्धारयितुमशक्यानि धारयन्न केनापि [] धारयितुं शक्यत इति दुर्द्धरः । दुःखेन ध्यानसमये मुमु- क्षुभिर्हृदये धार्यत इति वा दुर्द्धरः” भा० । तेन व्युत्पत्ति- भेदान्नामभेदोपपत्तेः सहस्रसंख्यापूर्त्तिर्द्रष्टव्या । “वन्ये- भदानानिलगन्घदुर्द्धरा” माघः । “दण्डो हि सुमह- त्तेजो दुर्द्धरश्चाकृतात्मभिः” रघुः ।
📄 मूल मुद्रित पृष्ठ (3639-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।