🕉️ 29 November 2026, Sunday · 01:18:48 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

दुर्द्धर
durddhara
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
दुर्द्धर १ वि॰ [सं॰]
१. जिसे कठिनाई से पकड़ सकें । जो जलदी पकड़ में न आ सके ।
२. प्रबल । प्रचंड ।
३. जो कठिनता से समझ में आवे ।
दुर्द्धर २ संज्ञा पुं॰
१. एक नरक का नाम ।
२. पारा ।
३. भिलावाँ । भल्लातक ।
४. महिषासुर का एक सेनापति ।
५. शंबरासुर के एक मंत्री का नाम । धृतराष्ट्र के एक पुत्र का नाम ।
७. रावण का एक सौनिक जिसे उसने अशोकबाटिका उजाड़ने पर हनुमान को पकड़ने के लिये भेजा था । यह राक्षस हनुमान के हाथ से मारा गया ।
८. विष्णु ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
दुर्—धर mfn. difficult to be carried or borne or suffered, unrestrainable, irresistible, RV. i, 57, 1; MBh.; Hariv. &c.
d˚ to be administered (punishment), Mn. vii, 28
d˚ to be kept in memory or recollected, MBh. xiii, 3618
inevitable, absolutely necessary (suffix), Vām. v, 2, 51
दुर्—धर m. quicksilver, L.
N. of two plants (ऋषभ and भल्लातक), L.
a kind of hell, L.
N. of a son of. Dhṛtarāṣṭra (cf. -धर्ष), MBh.
of one of Śambara's generals, Hariv.
of Mahiṣa, L.
📄 मूल मुद्रित पृष्ठ (485,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
दुर्द्धर त्रि० दुःखेन धार्यते दुर् + धृ--कर्मणि खल् । १ नरकभेदे २ ऋषभौषधौ मेदि० ३ पारदे ४ भल्लातके राजनि० “दुर्द्धरं दुर्मुखञ्चैभौ शरैर्निन्ये यमक्षयम्” देवीमा० उक्ते ५ महिषा- सुरसेनापतिभेदे पु० । ६ परमेश्वरे पु० “दर्पहा दर्पदो दृप्तो दुर्द्धरोऽन्यापराजितः” विष्णु० सं० “न शक्यधारणा यस्य प्रणिधानादिषु सर्वोपाधिनिर्मुक्तत्वात्तथापि तत्प्रसादतः कैश्चित् दुःखेन हृदये धार्यते जन्मान्तरसहस्रेषु भावना योगात् तस्माद्दुर्द्धरः “क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचे तसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते” भग- वद्वचनात्” भा० । “सुभुजो दुर्द्धरो वाग्मी” विष्णुसं० अस्य चान्या व्युत्पत्तिः भाष्ये दर्शिता यथा “पृथिव्यादीन्यपि लोकधारकाण्यन्यैर्द्धारयितुमशक्यानि धारयन्न केनापि [] धारयितुं शक्यत इति दुर्द्धरः । दुःखेन ध्यानसमये मुमु- क्षुभिर्हृदये धार्यत इति वा दुर्द्धरः” भा० । तेन व्युत्पत्ति- भेदान्नामभेदोपपत्तेः सहस्रसंख्यापूर्त्तिर्द्रष्टव्या । “वन्ये- भदानानिलगन्घदुर्द्धरा” माघः । “दण्डो हि सुमह- त्तेजो दुर्द्धरश्चाकृतात्मभिः” रघुः ।
📄 मूल मुद्रित पृष्ठ (3639-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
दुर्ध(र्द्ध)रः, पुं, (दुर्दुःखेन ध्रियते इति । दुर् + धृ + “ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।” ३ । ३ । १२६ । इति खल् ।) नरकविशेषः । ऋषभौ- षधिः । इति मेदिनी । रे, १६९ ॥ पारदः । भल्ला- तकः । इति राजनिर्घण्टः ॥ महिषासुरस्य सेनापतिविशेषः । यथा, मार्कण्डेये । ८३ । १९ । “दुर्द्धरं दुर्म्मुखञ्चोभौ शरैर्निन्ये यमक्षयम् ॥” (धृतराष्ट्रपुत्त्रभेदः । यथा, महाभारते । ७ । १३३ । ३० । “नामृष्यन्त महेश्वासाः सोदर्य्याः पञ्च भारत ! । दुर्म्मर्षणो दुःसहश्च दुर्म्मदो दुर्धरो जयः । पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन् ॥” शम्बरासुरस्य मन्त्रिविशेषः । यथा, हरिवंशे । १६२ । १८ । “दुर्धरः केतुमाली च णत्रुहन्ता प्रमर्द्दनः । एतैः परिवृतोऽमात्यैर्युयुत्सुः प्रस्थितो रणे ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ८९ । तस्य सहस्रनामकथने । “दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥” “न शक्या धारणा यस्य प्रणिधानादिषु सर्व्वोपाधिविनिर्म्मुक्तत्वात्तथापि तत्प्रसादादतः किञ्चिद्दुःखेन धार्य्यते जन्मान्तरसहस्रेषु भाव- नात् तस्मात् दुर्धरः । ‘क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥’ इति भगवद्वचनात् ॥” इति तद्भाष्ये शङ्करः ॥ तथा तत्रैव । ४२ श्लोके । “सुभुजो दुर्घरो वाग्मी महेन्द्रो वसुदो वसुः ॥” “पृथिव्यादीनि धारकाण्यन्येन धारयितुमशक्य- त्वात् न केनापि धारयितुं शक्यते इति दुर्धरः । दुःखेन ध्यानसमये मुमुक्षुभिर्हृदयेन धार्य्यते इति दुर्धरः ।” इति तद्भाष्यम् ॥ एतेन व्युत्पत्ति- भेदात् नामभेदोत्पत्त्या न द्बिरुक्तिः सहस्रनाम- पूर्त्तिश्च जाता ॥) दुःखधार्य्ये, त्रि । इति हेम- चन्द्रः ॥ (यथा, महाभारते । १ । १३४ । ९८ । “अथाब्रवीन्महात्मानं भारद्वाजो महारथम् । गृहाणेदं महाबाहो ! विशिष्टमिति दुर्धरम् ॥ अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्त्तनम् ॥” दुर्जये च । यथा, महाभारते । ७ । ११७ । ६ । “निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे । हार्द्दिक्यं योधवर्य्यञ्च प्राप्तं मन्ये धनञ्जयम् ॥”)
📄 मूल मुद्रित पृष्ठ (2-731-c)

स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬