देवदाली, स्त्री, (देवेन मेघोदयेन दालो दलनं यस्याः । गौरादित्वात् ङीष् ।) लताविशेषः । घघरवेल इति सोनैया इति च हिन्दीभाषा । खखसावत्पुष्पवृन्ता । (यथा, सुश्रुते, सूत्रस्थाने । ४९ अध्याये । “कोशातकी सप्तला शङ्खिनी देवदालीकार- वेल्लिका चेत्युभयतो भागहराणि ॥”) तत्पर्य्यायः । जीमूतकः २ कण्टफला ३ गरा ४ गरी ५ वेणी ६ महाकोषफला ७ कट्फला ८ घोरा ९ कदम्बी १० विषहा ११ कर्कटी १२ सारमूषिका १३ वृन्तकोषा १४ आखुविषहा १५ दाली १६ रोमशपत्रिका १७ कुरङ्गिका १८ [] सुतर्कारी १९ देवताडः २० ॥ अस्या गुणाः । तिक्तत्वम् । उष्णत्वम् । कटुत्वम् । पाण्डुकफ- दुर्नामश्वासकासकामलाभूतनाशित्वञ्च । तस्याः फलस्य गुणाः । तिक्तत्वम् । कृमिश्लेष्मगुल्मशूला- र्शोवातनाशित्वम् । स्रंसनत्वञ्च । “पीता गरा खरस्पर्शा विषघ्नी गरनाशिनी ॥” इति राजनिर्घण्टः ॥ तन्नामगुणाः । यथा, भावप्रकाशे । “देवदाली तु वेणी स्यात् कर्कटी च गरागरी । देवताडो वृन्तकोशस्तथा जीमूत इत्यपि ॥ पीतापरा खरस्पर्शा विषघ्नी गरनाशिनी । देवदाली रसे तिक्ता कफार्शःशोथपाण्डुताः ॥ नाशयेद्वामनी तिक्ता क्षयहिक्काकृमिज्वरान् । देवदालीफलं तिक्तं कृमिश्लेष्मविनाशनम् ॥ संसनं गुल्मशूलघ्नमर्शोघ्नं वातजित् परम् ॥”
📄 मूल मुद्रित पृष्ठ (2-743-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।