द्वारका, स्त्री, (द्वारेण बहुना प्रशस्तेन च प्रती- हारेण कायतीति । कै + कः । स्त्रियां टाप् ।) स्वनामख्यातपुरी । तत्पर्य्यायः । द्वारावती २ द्वारवती ३ वनमालिनी ४ द्वारिका ५ अब्धि- नगरी ६ द्वारकः ७ । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । १३२ । ४६ । “सत्यकं प्रेषयामास द्वारकां द्वारमालिनीम् ॥”) तस्या निर्म्माणप्रकारो यथा, -- [] श्रीकृष्ण उवाच । “हे समुद्र महाभाग ! स्थलञ्च शतयोजनम् । देहि मे नगरार्थञ्च पश्चाद्दास्यामि निश्चितम् ॥ नगरं कुरु हे कारो त्रिषु लोकेषु दुर्लभम् । रमणीयञ्च सर्व्वेषां कमनीयञ्च योषिताम् ॥ वाञ्छितञ्चापि भक्तानां वैकुण्ठसदृशं परम् । सर्व्वेषामपि स्वर्गाणां परं परमभीप्सितम् ॥ दिवानिशं खगश्रेष्ठ ! सन्निधौ विश्वकर्म्मणः । स्थितिं कुरु महाभाग ! यावन्निर्म्माति द्वारकाम् ॥ विश्वकारुरुवाच । द्बारकाञ्च किमाकारां करोमि जगतां विभो ! । कथयस्व महाभाग ! निर्म्माणक्रममीश्वर ! ॥ भगवानुवाच । शतयोजनपर्य्यन्तं नगरं मुमनोहरम् । पद्मरागैर्मरकतैरिन्द्रनीलैरनुत्तमैः ॥ रुचकैः पारिभद्रैश्च पालङ्कैश्च स्यमन्तकैः । गन्धकैर्गालिमैश्चैव चन्द्रकान्तादिभिस्तथा ॥ सूर्य्यकान्तादिभिश्चैव पुत्त्रैश्च स्फटिकाकृतैः । हरिद्वर्णैश्च मणिभिः श्यामैर्गौरमुखैश्च वै ॥ गोरोचनाभैः पीतैश्च दाडिम्बबीजरूपकैः । पद्मबीजनिभैश्चैव नीलैः कमलवर्णकैः ॥ मणिभिः कज्जलाकारैरुज्ज्वलैश्च परिष्कृतैः । श्वेतचम्पकवर्णाभैस्तप्तकाञ्चनसन्निभैः ॥ स्वर्णमूल्यशतगुणैरीषद्रक्तैश्च रूपकैः । गरिष्ठैश्च वरिष्टैश्च मणिश्रेष्ठैश्च पूजितैः ॥ यथाविधानं यद्योग्यं यत्र यद्युक्तमीप्सितम् । मणीनां हरणञ्चैव यक्षसंघा हिमालयात् ॥ दिवानिशं करिष्यन्ति यावन्निर्म्माणपूर्व्वकम् । यक्षैश्च सप्तभिर्लक्षैः कुवेरप्रेरितैरपि ॥ वेताललक्षैः कुष्माण्डलक्षैः शङ्करयोजितैः । दानवैर्ब्रह्मरक्षोभिः शैलकन्यानियोजितैः ॥ कुरु दिव्यञ्च पत्नीनां सहस्राणाञ्च षोडश । अन्यपत्नीजनस्यापि चाष्टाधिकशतस्य च ॥ शिविरं परिखायुक्तमुच्चैः प्राकारवेष्टितम् । युक्तं द्वादशसारञ्च सिंहद्बारपुरस्कृतम् ॥ युक्तं चित्रैर्विचित्रैश्च कृत्रिमैश्च कवाटकैः । निषिद्धवृक्षरहितं प्रसिद्धैश्च पुरस्कृतम् ॥ सुलक्षणं चन्द्रवेधं प्राङ्गनञ्च तथैव च । यदूनामाश्रमं दिव्यं किङ्कराणान्तथैव च ॥ सर्व्वप्रसिद्धं निलयमुग्रसेनस्य भूभृतः । आश्रमं सर्व्वतोभद्रं वसुदेवस्य मत्पितुः ॥ कथितः लोकशिक्षार्थं कुरु काष्ठं विना पुरीम् । शुभक्षणञ्चाप्यधुना गच्छ वत्स ! यथासुखम् ॥ विश्वकर्म्मा हरिं नत्वा जगाम पक्षिणा सह । सुमुद्रस्य समीपञ्च वटमूलं मनोहरम् ॥ सुष्वाप्र तत्र नक्तञ्च कारुश्च पक्षिणा सह । स्वप्ने द्वारवतीं रम्यां ददर्श गरुडस्तथा ॥ यत्किञ्चित् कथितः कारुः कृष्णेन परमात्मना । तदेव लक्षणं सर्व्वं ददर्श नगरे मुने ! ॥ कारुं हसन्ति स्वप्ने च सर्व्वे ते शिल्पकारिणः । गरुडं गरुडाश्चान्ये बलवन्तश्च पक्षिणः ॥ बुद्ध्वा ददर्श मरुडो विश्वकर्म्मा च लज्जितः । [] अतीव द्वारकां रम्यां शतयोजनविस्तृताम् ॥ ब्रह्मादीनाञ्च नगरं विजित्य च विराजिताम् । तेजसाच्छादितां सूर्य्यं रत्नानाञ्च परिष्कृताम् ॥ वासुदेव उवाच । पैतृकीतीर्थतुल्या सा किं तीर्थं द्वारकापरम् । सर्व्वतीर्थपरा श्रेष्ठा द्वारका बहुपुण्यदा ॥ यस्याः प्रवेशमात्रेण नराणां जन्मखण्डनम् ॥ दानञ्च द्वारकायाञ्च श्राद्धञ्च देवपूजनम् । चतुर्गुणञ्च तीर्थानां गङ्गादीनाञ्च भूमिप ! ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥
📄 मूल मुद्रित पृष्ठ (2-766-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।