🕉️ 23 November 2026, Monday · 10:41:46 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

द्वितीया
dvitīyā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
द्वितीया संज्ञा स्त्री॰ [सं॰]
१. प्रत्येक पक्ष की दूसरी तिथि । दूज ।
२. वाम मार्ग के अनुसार मांस ।
३. पत्नी । स्त्री । सहषर्मिणी (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
द्वितीया (आ), f. female companion or friend, Kāṭh. xcviii, 33
wife (a second self), L.
(sc. विभक्ति) the 2nd case, the accusative or its terminations, Pāṇ. ii, 1, 24 &c.
(sc. तिथि) the 2nd day of a half-month, Ratn. iv, 2/3
1. द्वितीया f. of ˚तीय.
2. द्वितीया ind.
📄 मूल मुद्रित पृष्ठ (506,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
द्वितीया, स्त्री, (द्वितीय + टाप् ।) गेहिनी । भार्य्या । इत्यमरः । २ । ६ । ५ ॥ तिथिविशेषः । सा चन्द्रस्य द्बितीयकलाक्रियारूपा । शुक्लपक्षे २ कृष्णपक्षे १७ एतदङ्कबोधिता । इति ज्योति- षम् ॥ * ॥ सा च अश्विनीकुमारयोर्जन्मतिथिः । यथा, -- [] ब्रह्मोवाच । “रूपं कान्तिरनौपम्यं भिषक्त्वं सर्व्ववस्तुषु । सोमपत्वञ्च लोकेषु सर्व्वमेतद्भविष्यति ॥ महातपा उवाच । एतत् सर्व्वं द्वितीयायामश्विभ्यां ब्रह्मणा पुरा । दत्तं यस्मात्ततस्तेषां तिथीनामुत्तमा तिथिः ॥ एतस्यां रूपकामस्तु पुष्पाहारो भवेन्नरः । संवत्सरं शुचिर्नित्यं सुखरूपी भवेन्नरः ॥ अश्विभ्यां ये गुणाः प्रोक्तास्ते तस्यापि भवन्ति च ॥” इति वराहपुराणम् ॥ अत्र जातफलम् । “निखिलगुणगभीरो दानशीलो दयालुः स्वकुलकुमुदचन्द्रः स्वच्छचित्तोऽतिशूरः । निजभुजबलगर्व्वाच्छादितारातिवर्गो भवति विपुलकीर्त्तिर्यो द्वितीयाप्रसूतः ॥” इति कोष्ठीप्रदीपः ॥ अथ रथद्बितीया । स्कन्दपुराणे । “आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता । तस्यां रथे समारोप्य रामं मां भद्रया सह ॥ यात्रोत्सवं प्रवृत्याथ प्रीणयेच्च द्विजान् बहून् । ऋक्षाभावे तिथौ कार्य्या सदा सा प्रीतये मम ॥ सा यात्रा । मां जगन्नाथम् ॥ अथ मनोरथद्वितीया । सा श्रावणशुक्लद्वितीया । ‘मतोरथद्वितीयायां दिवा वासुदेवार्च्चनं रात्रौ चन्द्रोदयेऽर्घ्यदानं नक्तञ्च भोजनादिकम् ॥’ यथा विष्णुधर्म्मोत्तरे । ‘देवमभ्यर्च्य पुष्पैस्तु धूपदीपानुलेपनैः । उद्गच्छतश्च बालेन्दोर्दद्यादर्घ्यं समाहितः ॥ नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः । अस्तं गते न भुञ्जीत व्रतभङ्गभयान्नरः ॥’ अथ भ्रातृद्वितीया । लिङ्गपुराणे । ‘कार्त्तिके तु द्वितीयायां शुक्लायां भ्रातृपूजनम् । या न कुर्य्याद्विनश्यन्ति भ्रातरः सप्तजन्मनि ॥’ तस्या इति शेषः ॥ महाभारते । ‘कार्त्तिके शुक्लपक्षे तु द्वितीयायां युधिष्ठिर ! । यमो यमुनया पूर्व्वं भोजितः स्वगृहे स्वयम् ॥ तस्यां निजगृहे पार्थ ! न भोक्तव्यमतो बुधैः । यत्नेन भगिनीहस्ताद्भोक्तव्यं पुष्टिबर्द्धनम् ॥ दानानि च प्रदेयानि भगिनीभ्यो विशेषतः ॥’ तथा । ‘यमञ्च चित्रगुप्तञ्च यमदूतांश्च पूजयेत् । अर्ध्यश्चात्र प्रदातव्यो यमाय सहजद्वयैः ॥’ सहजद्वयेर्भगिनीभ्रातृभिः । अर्घ्यमन्त्रः । ओँ एह्येहि मार्त्तण्डज पाशहस्त यमान्तकालोकधरामरेश ! । भ्रातृद्वितीयाकृतदेवपूजां गृहाण चार्घ्यं भगवन्नमस्ते ॥ प्रणाममन्त्रः । ओँ धर्म्मराज नमस्तुभ्यं नमस्ते यमुनाग्रज । पाहि मां किङ्करैः सार्द्धं सूर्य्यपुत्त्र नमोऽस्तु ते ॥ यमुनाञ्च संपूज्य नमस्कुर्य्यात् । ओँ यमस्वसर्नमस्तेऽस्तु यमुने लोकपूजिते । [] वरदा भव मे नित्यं सूर्य्यपुत्त्रि ! नमोऽस्तु ते ॥ अन्नं दत्त्वा पठति । भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं शुभम् । प्रीतये यमराजस्य यमुनाया विशेषतः ॥ ज्येष्ठा तवाग्रजाताहमिति वदेत् । तथा यमद्वितीयायां यात्रायां मरणं भवेत् ॥ अनध्यायद्वितीया यथा । प्रे-को-चै-चाद्वितीयास्ताः प्रेतपक्षे गते तु या । या च कोजागरे जाते चैत्रावल्याः परेऽपि या ॥ चातुर्मास्ये समाप्ते च द्वितीया या भवेत्तिथिः । परास्वेतास्वनध्यायः पुराणैः परिकीर्त्तितः ॥” इति तिथितत्त्वम् ॥ “पक्षयोर्माघमासस्य द्वितीयां परिवर्ज्जयेत् ॥” इति विष्णुपुराणम् ॥
📄 मूल मुद्रित पृष्ठ (2-769-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "द्वितीया" आता है (6)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬