🕉️ 25 November 2026, Wednesday · 07:45:53 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

धन्वंतरि
dhanvaṃtari
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
धन्वंतरि संज्ञा पुं॰ [सं॰ धन्वन्तरि]
१. देवताओं के वैद्य जो पुराणा- नुसार समुद्रमंथन के समय और सब वस्तुओं के साथ समुद्र से निकले थे । विशेष—हरिवंश में लिखा है कि जब ये समुद्र से निकले तब तेज से दिशाएँ जगमगा उठीं । ये सामने विष्णु को देखकर ठिठक रहे, इसपर विष्णु भगवान् ने इन्हें अब्ज कहकर पुकारा । भगवान् के पुकारने पर इन्होंने उनसे प्रार्थना की कि यज्ञ में मेरा भाग और स्थान नियत कर दिया जाय । विष्णु ने कहा भाग और स्थान तो बँट गए हैं पर तुम दूसरे जन्म में विशेष सिद्धिलाई करोगे, अणिमादि सिद्धियाँ तुम्हें गर्भ से ही प्राप्त रहेंगी और तुम सशरीर देवत्वलाभ करोगे । तुम आयुवेद को आठ भागों में विभक्त करोगे । द्वापर युग में काशिराज 'धन्व' ने पुत्र के लिये तपस्या और अब्जदेव की आराधना की । अब्जदेव ने धन्व के घर स्वयं अवतार लिया और भरद्वाज ऋषि से आयुर्वेद शास्त्र अध्ययन करके प्रजा को रोगमुक्त किया । भावप्रकाश में लिखा है कि इंद्र ने आयुर्वेद शास्त्र सिखाकर धन्वंतरि को लोक के कल्याण के लिये पृथ्वी पर भेजा । धन्वंतरि काशी में उत्पन्न हुए और ब्रह्मा के वर से काशी के राजा हुए । महाराज विक्रमादित्य की सभा के जो नव- रत्न गिनाए गए हैं उनमें भी एक धन्वंतरि का नाम है । पर जब नवरत्नवाली बात ही कल्पित है तब इन धन्वंतरि का पता लगना कठिन ही है ।
२. विकमादित्य के नवरत्नों में से एक (को॰) ।
३. सूर्य (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
धन्वन्-तरि m. (for ˚वनि-त्˚), ‘moving in a curve’, N. of a deity to whom oblations were offered in the north-east quarter, Kauś. 74; Mn. iii, 85; MBh. xiii, 4662 (where ˚तरे w.r. for ˚तरेः)
of the sun, MBh. iii, 155
the physician of the gods (produced at the churning of the ocean with a cup of Amṛta in his hands, the supposed author of the Āyur-veda, who in a later existence is also called Divo-dāsa, king of Kāśi, and considered to be the founder of the Hindū school of medicine), MBh.; Hariv.; R.; Suśr.; Pur. Rājat. vii, 1392 (धान्व्˚)
N. of the author of a medical dictionary (perhaps the same mentioned among the 9 gems of the court of Vikramāditya), Cat.
📄 मूल मुद्रित पृष्ठ (509,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
धन्वंतरिः N. of the physician of the gods, said to have been produced at the churning of the ocean with a cup of nectar in his hand; cf. चतुर्दशरत्न.
📄 मूल मुद्रित पृष्ठ (0591-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
धन्वन्तरि पु० धनोः तन्निमित्तशल्यस्यान्तं पारमृच्छति ऋ- गतौ इन् किच्च । १ समुद्रोत्थिते देववैद्यभेदे । धन्वन्तरि- स्ततो देवोवपुष्मानुदतिष्ठत” भा० आ० १८ अ० । द्वापरे तस्योत्पत्तिकथा हरिवं० १९ अ० यथा । “धन्वन्तरेः सम्भवोऽयं श्रूयतां भरतर्षभ! । स सम्भूतः समद्रात्तुमथ्यमानेऽमृते पुरा । उत्पन्नः कलशात् पूर्वं सर्वतस्तु श्रिया वृतः । अभ्यसन् सिद्धिकार्य्यं हि विष्णुं दृष्ट्वा हि तस्थिवान् । अब्जस्तमिति होवाच तस्माद- ब्जस्तु स स्मृतः । अब्जः प्रोवाच विष्णुं वै तनयोऽस्मि तव प्रभो! । विधत्स्व भागं स्थानञ्च मम लोकेश्वरेश्वर! । एवमुक्त्वा स दृष्ट्वा वै तथ्यं प्रोवाच तं प्रभुः । कृतो यज्ञ विभागो हि यज्ञियैर्हि सुरैः पुरा । देवेषु विनियुक्तञ्च विधिहोत्रं महर्षिभिः । न शक्यमुपहोमो वै तुभ्यं कर्तुं कदाचन । अर्वाग्भूतोऽसि देवानां पुत्रस्त्वं हि महीश्वरः । द्वितीयायान्तु संभूत्यां लोके ख्यातिं गमि- ष्यसि । अणिमादिश्च ते सिद्धिर्गर्भस्थस्य भविष्यति । तेनैव त्वं शरीरेण देवत्वं प्राप्स्यसे प्रभो! । चरुमन्त्रै- र्व्रतैर्जप्यैर्यक्ष्यन्ति त्वां द्विजातयः । अष्टधा त्वं पुनश्चैव- मायुर्वेदं विधास्यसि । अवश्यभावी ह्यर्थोऽयं प्राग्- दृष्टस्त्वब्जयोनिना । द्वितीयं द्वापरं प्राप्य भवितां त्वं य संशयः । इमं तस्मै वरं दत्त्वा विष्णुरन्तर्दधे पुनः । द्वितीये द्वापरे प्राप्ते सौनहोत्रिः स काशिराट् । पुत्रका- मस्तपस्तेपे धन्वो दीर्घं महत्तदा । प्रपद्ये देवतां तान्तु या मे पुत्रं प्रदास्यति । अब्जं देवं स पुत्रार्थे तदाराधि- तवान्नृपः । ततस्तुष्टः स भगवानब्जः प्रोवाच तं नृपम् । यदिच्छसि वरं ब्रूहि तत्ते दास्यामि सुव्रत! । नृप [] उवाच । भगवन्! यदि तुष्टस्त्वं पुत्रो मे ख्यातिमान् भव । तथेति समनुज्ञाय तत्र वान्तरधीयत । तस्य गेहे ममुत्षन्नो देवो धन्वन्तरिस्तदा । काशिराजो महाराजः सर्वरोगप्रणाशनः । आयुर्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियम् । तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्य पादयत् । धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः । अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः । पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः । दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत्” आयुर्वेदशब्ददर्शित वाक्ये काशिराजस्य दिवोदासस्य धन्वन्तरितोक्तिः तदपत्ये उपचारात् अतो न विरोधः । “धन्वन्तरिश्च भगवान् स्वयमेव कीर्तिर्नाम्ना नृणाम् पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवावरुन्ध आयुष्यवेद मनुशास्त्यवतीर्य्य लोके” भाग० २ । ७ । २२ । “स वै भगवतः साक्षात् विष्णोरंशांशसम्भवः । धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक्” । “नारायणांशो भगवान् स्वयं धन्वन्तरिर्महान् । पुरा समुद्रमथने समुत्तस्थौ महोदधेः । सर्वबेदेषु निष्णातो मन्त्रतन्त्रविशारदः । शिष्यो हि वैनतेयस्य शङ्करस्योपशिष्यकः” व्रह्म० वैव० श्रीकृष्ण जन्मखण्डे ५१ अ० । २ दिवोदासे त्रिका० । विक्रमादित्यसभास्थनवरत्नान्तर्गते कविभेदे ज्योतिर्वि० । “धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टथटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः समायां रत्नानि वै वररुचिर्नव विक्रमस्य” । अत्र वराहमिहिरौ इति शब्दकल्पद्रुमे द्विवचनान्ततया पाठः प्रामादिक एव द्विवचनान्तत्वे नवसंख्यानुपपत्तेः वराहो मिहिर इति विग्रहः वृहज्जातकटीकायां भट्टोत्पलेनोक्तः । अतएव “वराहमिहिरात्मजेन पृथुय- शसा” तत्पुत्रकृतषट्पञ्चाशिकायामुक्तं वराहमिहिरा- त्मजत्वमात्मनो विशेषणमुपपद्यते वराहमिहिरयो- र्भिन्नत्वे तदनुपपत्तेः इति सूक्ष्ममीक्षणीयम् ।
📄 मूल मुद्रित पृष्ठ (3846-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
धन्वन्तरिः, पुं, (धनुरुपलक्षणत्वात् शल्यादि- चिकित्साशास्त्रं तस्य अन्तं ऋच्छतीति । ऋ गतौ + “अच इः ।” उणां ४ । १३८ । इति इः ।) देववैद्यः । स भगवदवतारः । यथा, -- “धन्वन्तरिश्च भगवान् स्वयमेव कीर्त्ति- र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवावरुन्ध आयुष्यवेदमनुशास्त्यवतीर्य्य लोके ॥ स वै भगवतः साक्षात् विष्णोरंशांशसम्भवः । धन्वन्तरिरिति ख्यात आयुर्व्वेददृगिज्यभाक् ॥” इति श्रीभागवतम् ॥ * ॥ “नारायणांशो भगवान् स्वयं धन्वन्तरिर्महान् । पुरा समुद्रमथने समुत्तस्थौ महोदधेः ॥ सर्व्ववेदेषु निष्णातो मन्त्रतन्त्रविशारदः । शिष्यो हि वैनतेयस्य शङ्करस्योपशिष्यकः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५१ अध्यायः ॥ [] अन्यच्च । “काशस्य काशिराजः तस्य दीर्घ- तमाः पुत्त्रोऽभूत् । धन्वन्तरिस्तु दीर्घतमसोऽ- भूत् । न हि संसिद्धकार्य्यकारणः सकल- सम्भूतिष्वशेषज्ञानवित् । भगवता नारायणेन चातीतसम्भूतौ तस्मै वरो दत्तः । काशिराज- गोत्रेऽवतीर्य्य त्वमष्टधा सम्यगायुर्व्वेदं करिष्यसि । यज्ञभाक् त्वं भविष्यसीति । तस्य च धन्वन्तरेः पुत्त्रः केतुमान् केतुमतो भीमरथः । तस्यापि दिवोदासः ।” इति विष्णुपुराणम् । ४ । ८ । २-५ ॥ * ॥ अस्यार्थः । “संसिद्धकार्य्यकारणः जरादिरहित- देहेन्द्रियः । संयतदेहेन्द्रिय इति वा । सकल- सम्भूतिषु सर्व्वेष्वपि जन्मसु । अशेषज्ञानवित् सर्व्व- शास्त्रवित् । अतीतसम्भूतौ क्षीराब्धौ जन्मनि । अष्टधा अष्टाङ्गमायुर्व्वेदम् तदुक्तं लघुवाग्भटे । कायबालग्रहोर्द्ध्वाङ्गशल्यदंष्ट्राजराविषम् । अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संस्थितेति ।” इति तट्टीकायां स्वामी ॥ * ॥ दिवोदासः । इति त्रिकाण्डशेषः ॥ (धन्वन्तरिप्रादुर्भावो यथा, “एकदा देवराजस्य दृष्टिर्निपतिता भुवि । तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः ॥ तान् दृष्ट्वा हृदयन्तस्य दयया परिपीडितम् । दयार्द्रहृदयः शक्रो धन्वन्तरिमुवाच ह ॥ धन्वन्तरे ! सुरश्रेष्ठ ! भगवन् ! किञ्चिदुच्यते । योग्यो भवसि भूतानामुपकारपरो भव ॥ उपकाराय लोकानां केन किन्न कृतं पुरा । त्रैलोक्याधिपतिर्विष्णुरभून्मत्स्यादिरूपवान् ॥ तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव । प्रतीकाराय रोगाणामायुर्व्वेदं प्रकाशय ॥ इत्युक्त्वा सुरशार्द्द्लः सर्व्वभूतहितेप्सया । समस्तमायुषो वेदं धन्वन्तरिमुपादिशत् ॥ अधीत्य चायुषो वेदमिन्द्राद्धन्वन्तरिः पुरा । आगत्य पृथिवीं काश्याञ्जातो बाहुजवेश्मनि । नाम्ना तु सोऽभवत् ख्यातो दिवोदास इति क्षितौ । बाल एव विरक्तोऽभूच्चचार सुमहत्तपः ॥ यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम् । ततो धन्वन्तरिर्लोकैः काशीराजोऽभिधीयते ॥ हिताय देहिनां स्वीया संहिता विहितामुना । अयं विद्यार्थिनो लोकान् संहितान्ताम- पाठयत् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) विक्रमादित्यराजस्य नवरत्नान्तर्गतरत्नविशेषः । यथा, -- “धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥” इति नवरत्नम् ॥ (धनोर्धनुर्वेदस्य अन्तमृच्छतीति । महादेवः । यथा, महाभारते । १३ । १७ । १०३ । “धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ॥”)
📄 मूल मुद्रित पृष्ठ (2-781-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "धन्वंतरि" आता है (2)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬