धर्मज पु० धर्मार्थं जायते जन--ड । १ औरसे प्रथमे पुर्त्रौ “यस्मिन्नृणं सन्नयति येन चानन्त्यमश्रुते । स एव धर्मजः पुत्रः कामजानितरान् विदुः” मनुः । धर्मात् जायते जन--ड । २ धर्मपुत्रे युधिष्ठिरे । “एवं सञ्चिन्त्य भग- वान् स्यराज्ये स्थाप्य धर्मजम् । नन्दयामास सुहृदः साधूनां वर्म दर्शयन्” भाग० ३ । ३ । १७ । युधिधिरस्य धर्मतो जन्मकथा भा० आ० १२३ अ० । “संवत्सरधुते गर्मे गान्धार्य्या जनमेजय! । आह्वयामास वै कुन्ती गर्मार्ये धर्ममच्युतम् । सा वलिं त्वरिता देवी धर्मायोपजहार ह । जजाप विधिवज्जप्यं दत्तं दुर्वाससा पुरा । आजगाम ततो देवो धर्मो मन्त्रबलात्ततः । विमाने सूर्य्यसङ्काशे कुन्ती यत्र जपस्थिता । विहस्य तां ततो ब्रूयाः कुन्ति! किन्ते ददाम्यहम् । सा तं विहस्यमाना- ऽपि पुत्रं देह्यब्रवीदिदम् । संयुक्ता सा हि धर्मेण योगमूर्त्तिधरेण ह । लेभे पुत्रं वरारोहा सर्वप्राणमृतां हितम् । ऐन्द्रे १८ चन्द्रसमायुक्ते मुहूर्त्तेऽभिजितेऽष्टमे । दिवामध्यगते सूर्य्ये तिथौ पूर्णेऽतिपूजिते । समृद्ध- यशसं कुन्ती सुषाव प्रवरं सुतम् । जातमात्रे सुते तस्मिनु वागुवाचा शरीरिणी । एष धर्मभृतां श्रेष्ठी भविष्यति नरोत्तमः । विक्रान्तः सत्यवाक् चैव राजा पृथ्व्यां भवि- ष्यति । युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः” । ३ बुद्धभेदे ४ दिव्यभेदे न० धटशब्दे दृश्यम् । ५ धर्मतो जातमात्रे त्रि० । ६ नरनारायणयोः पु० द्वि० व० । धर्मशब्दे तयोर्मूर्त्तिरूपधर्म्मपत्नीजन्मकथा दृश्या ।
📄 मूल मुद्रित पृष्ठ (3855,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।