धाता, [ऋ] पुं, (दधातीति । धा + तृच् ।) ब्रह्मा । इत्यमरः । १ । १ । १७ ॥ (यथा, रघुः । १० । ४३ । “धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात् सर्गादवध्यत्वं मर्त्त्येष्वास्थापराङ्मुखः ॥”) [] विष्णुः । इति हलायुधः ॥ (यथा, महाभारते । १३ । १४९ । ११५ । “आधारनिलयो धाता पुष्पहासः प्रजागरः ॥” “संहारसमये सर्व्वाः प्रजा धयति पिबतीति वा धाता । धेट् पाने इति धातुः ।” इति शाङ्कर- भाष्यम् ॥ महादेवः । यथा, तत्रैव । ३३ । १७ । १०३ । “धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥”) भृगुमुनिपुत्त्रः । तस्य भार्य्या मेरुकन्या आयतिः । तस्य सुतः मृकण्डुः तस्य च मार्कण्डेयः । इति श्रीभागवतम् ॥ ऊनपञ्चाशद्वाय्वन्तर्गतवायुवि- शेषः । यथा, वह्निपुराणे गणभेदनामाध्याये । “धाता दुर्गो धितिर्भीमस्त्वभियुक्तस्त्वपात्सहः । द्युतिर्घपुरनाप्योथवासः कामो जयो विराट् ॥ इत्येकोनाश्च षञ्चाशन्मरुतः पूर्व्वसम्भवाः ॥” (आदित्यविशेषः । यथा, महाभारते । १ । ६५ । १४-१५ । “अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः । ये राजन् ! नामतस्तांस्ते कीर्त्तयिष्यामि भारत ! ॥ धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च ॥” ब्रह्मणः पुत्त्रविशेषः । यथा, महाभारते । १ । ६६ । ५१ । “द्वौ पुत्त्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् । लोके धाता विधाता च यौ स्थितौ मनुना सह ॥”) पालके, त्रि । इति मेदिनी । ते, २७ ॥ धारकः । इति धरणिः ॥
📄 मूल मुद्रित पृष्ठ (2-790-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।