🕉️ 19 November 2026, Thursday · 01:58:50 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

धारक
dhāraka
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
धारक १ वि॰ [सं॰]
१. धारण करनेवाला । धारनेवाला ।
२. रोकनेवाला ।
३. ऋण लेनेवाला । कर्जदार ।
धारक २ संज्ञा पुं॰ [सं॰] कलश । धड़ा ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
1. धारक mfn. = prec. (ifc.; cf. कुल-, देह-, नाम- &c.)
keeping in the memory (with gen.), Kāraṇḍ.
धारक m. a receptacle or vessel for anything, Suśr.
a water-pot, L.
2. धारक ifc. = prec. or next
cf. त्रि-.
📄 मूल मुद्रित पृष्ठ (515,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
धारक a. Holding, possessing, bearing &c.; नाम˚, देह˚. --कः 1 A vessel of any kind (box, trunk, &c.), a water-pot. --2 A debtor. --का The vulva of a female.
📄 मूल मुद्रित पृष्ठ (0596-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
धारक त्रि० धारयति धारि--ण्वुल् । १ अधमर्णे २ धारण- कर्त्तरि च । ३ कलसे तस्य नामनिरुक्तिः देवीपु० “ग्रहान् धारयते यस्मात् मातराविविधास्तथा । दुरितानि च निघ्नन्ति तन ते धारकाः स्मृताः” ४ यौनौ स्त्री कापि वेदे अत इत्त्वं न । “निगल्गलीति धारका” यजु० २३ । २२ “धरति लिङ्गं धारका योनि” वेददी० ।
📄 मूल मुद्रित पृष्ठ (3885,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
धारकः, पुं, (धरति जलादिकमिति । धृ + ण्वुल् ।) कलसः । तस्योत्पत्त्यादि यथा, -- ब्रह्मोवाच । “उत्पत्तिं लक्षणं मानं कथयामि महामुने ! । धारकाः कलसाश्चैव येन लोके प्रकीर्त्तिताः ॥ अमृते मथ्यमाने तु सर्व्वदेवैः सदानवैः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ उत्पन्नममृतं तत्र महावीर्य्यपराक्रमम् । तस्यायं धारणार्थाय कलसः परिकीर्त्त्रितः ॥ [] कलां कलां गृहीत्वा वै देवानां विश्वकर्म्मणा । निर्म्मितोऽयं सुरैर्यस्मात् कलसस्तेन उच्यते ॥ कलसस्य मुखे ब्रह्मा ग्रीवायान्तु महेश्वरः । मूले तु संस्थितो विष्णुर्मध्ये मातृगणाः स्थिताः ॥ शेषास्तु देवताः सर्व्वा वेष्टयन्ति चतुर्द्दिशम् । कुक्षौ तु सागराः सप्त सप्त द्बीपास्तु संश्रिताः ॥ नक्षत्राणि ग्रहाः सर्व्वे तथैव कुलपर्व्वताः । हिमवान् हेमकूटश्च निषधो मेरुरेव च ॥ रोहितो माल्यवन्तश्च सूर्य्यकान्तिश्च पर्व्वताः । गङ्गा सरस्वती सिन्धुः सुभगा यमुना नदी ॥ ऐरावती शतह्रदा तथा वैतरणी नदी । गोदावरी नर्म्मदा च मही नाम महानदी ॥ कुरुक्षेत्रं प्रयागश्च एकहंसं पृथूदकम् । अमरेश्वरः पुण्डरीकं गङ्गासागर एव च ॥ पृथिव्यां यानि तीर्थानि कलसे निवसन्ति ते । ग्रहाः शान्तिश्च पुष्टिश्च प्रीतिर्गायत्त्रिरेव च ॥ ऋग्वेदोऽथ यजुर्व्वेदः सामवेदस्तथैव च । अथर्व्ववेदसहिताः सर्व्वे कलससंस्थिताः ॥ नवैव कलसाः पुण्याः शम्भुमूर्त्तिसमुद्भवाः । गोभ्योपगोभ्यो मरुतः स्वस्वदश्च तथा परः ॥ मनोहरः खलुर्भद्रः पञ्चमः परिकीर्त्तितः । विरजस्तनुदूषश्च षष्ठसप्तमकावुभौ ॥ अष्टमस्त्विन्द्रियोपेतो नवमो विजयः स्मृतः । नवैव कलसाः ख्याता अधिदेवं निबोधत ॥ शृणु वत्स ! यथा तेषां दिशां न्यासो व्यवस्थितः । नवमो यः समाख्यातो विजयो नाम नामतः ॥ शिवस्तत्र स्थितः साक्षात् सर्व्वपापहरः शुभः । क्षितीन्द्रो ज्येष्ठकलसो द्बितीयो जलसम्भवः ॥ तृतीयः पवनश्चैव चतुर्थस्तु हुताशनः । पञ्चमो यजमानस्तु षष्ठस्त्वाकाशसम्भवः ॥ सोमस्तु सप्तमः प्रोक्त आदित्यश्च तथाष्टमः । एते चोत्पादिता देव्या शिवेनाधिष्ठिताः पुरा ॥ इन्द्रस्य मूर्त्तयश्चाष्टौ सूर्य्यान्ता नवमः शिवः । क्षितीन्द्रः पूर्व्वतो न्यास्यः पश्चिमे जलसम्भवः ॥ वायव्ये वायवो न्यास्य आग्नेये अग्निसम्भवः । नैरृते यजमानस्तु ऐशान्याकाशसम्भवः ॥ सौम्यमुत्तरतो योज्यं सौरं दक्षिणतो न्यसेत् । न्यस्यैवं कलसानान्तु पूर्व्वरूपं विचिन्तयेत् ॥ कलसानां मुखे ब्रह्मा ग्रीवायां विष्णुरेव हि । मध्ये मातृगणाः सर्व्वे सेन्द्रा देवाश्च पन्नगाः ॥ कुक्षौ तु सागरास्तेषां सप्तद्बीपा च मेदिनी । श्रिया चैव तथोमा च गन्धर्व्वा ऋषयस्तथा ॥ पञ्चभूतास्तथा धारास्तेषामवकृताः स्थिताः । पूर्णाः पूतेन तोयेन सिद्धास्त्वेकान्ततो मुने ! ॥ सरित्सरःसखातेन तडागेन जलेन वा । वापीकूपोढदिव्येन सामुद्रेण सुखावहाः ॥ सर्व्वमङ्गलमाङ्गल्याः सर्व्वकिल्विषनाशकाः । अभिषेके सदा ग्राह्याः कलसा ईदृशाः शुभाः ॥ यात्राविवाहकाले वा प्रतिष्ठायज्ञकर्म्मणि । योजनीया विशेषेण सर्व्वकामप्रसाधकाः ॥ ग्रहान् धारयते यस्मान्मातरा विविधास्तथा । दुरितांश्च महाधोरांस्तेन ते धारकाः स्मृताः ॥ [] एकैकान्तु कलां मूर्त्तौ क्षित्यादीनां यथाक्रमम् । संहृत्य संस्थिता यस्मात्तेन ते कलसाः स्मृताः ॥ हैमराजतताम्रा वा मृण्मया लक्षणान्विताः । पञ्चमाङ्गुलवैपुल्यमुत्सेधः षोडशाङ्गुलः ॥ कलसानां प्रमाणन्तु मुखमष्टाङ्गुलं भवेत् ॥” इति देवीपुराणम् ॥ धारणकर्त्तरि, त्रि ॥ (यथा, पञ्चतन्त्रे । २ । १७५ । “अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥”)
📄 मूल मुद्रित पृष्ठ (2-795-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "धारक" आता है (2)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें