🕉️ 22 November 2026, Sunday · 10:11:56 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नंदनंदन
naṃdanaṃdana
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
नंदनंदन संज्ञा पुं॰ [सं॰ नन्दनन्दन] नन्द के पुत्र, श्रीकृष्ण ।
नंदनंदन पु संज्ञा पुं॰ [सं॰ नन्दनन्दन] दे॰ नंदनंदन । उ॰— नंददास दनँदन सुँ होनं लागे नयनाँ पलक की ओट मानु री बीते जुग चार । —नंद ग्रं॰, पृ॰ ३५५ ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नन्द—नन्दन m. = -कुमार, L.
📄 मूल मुद्रित पृष्ठ (526,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नन्दनन्दन पु० नन्दस्य नन्दनः आनन्दजनकः । श्रीकृष्णे वासुदेवे तस्य वासुदेवत्वेऽपि कंसभीत्या नन्दसुतां योग- मायामानीय तत्स्थले रात्रौ निगूढतया कृष्णस्य स्थाप- नेन तस्य तत्पुत्राभिमानात् तन्नन्दनत्वम् । तत्कथा भाम० १० । ३ अ० यथा “ततश्च शौरिर्भगवत्प्रचोदितः सुतं समदाय स सूतिकागृहात् । यदा बहिर्गन्तुमियेष तर्ह्यजा या योगमायाऽजनि नन्दजायया । तया हृतप्रत्ययसवै- वर्त्तिषु द्वाःस्थेषु पौरेषु च शायितेष्वथ । द्वारश्च सर्वाः पिहिता दुरत्यया वृहत्कवाटायसकीलशृङ्खलैः । कृष्ण वाहे वसुदेव आगते स्वयं व्यशीर्य्यन्त यथा तमो रवेः । ववर्ष पर्जन्य उपांशुगर्जितः शेषोऽन्वगाद्वारि निवारयन् फणैः । मवोनि वर्षत्यसकृद् यमानुजा गम्भीरतोयौघज वोर्मिफेनिला । भयानकावर्त्तशताकुला नदी मार्गं ददौ सिन्धुरिव श्रियः पतेः । नन्दव्रजं शौरिरुपेत्य तत्र तान् गोपान् प्रसुप्तानुपलभ्य निद्रया । शिशुं यशोदा- शयने निधाय तत्--सुतां समादाय पुनर्गृहानगात् । देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् । प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः । यशोदा नन्दपत्नी च जातं पुत्रमबुध्यत । न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः” नन्दपुत्रनन्दसुतादयोऽप्यत्र । २ योगमायायां स्त्री ।
📄 मूल मुद्रित पृष्ठ (3960,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नन्दनन्दनः, पुं, (नन्दस्य नन्दनः सुतः आनन्द- जनको वा ।) श्रीकृष्णः । इति शब्दरत्नावली ॥ तस्य लीलासंवरणान्ते तन्महिषीणां दस्यु- हस्तगतत्वकारणं यथा, -- व्यास उवाच । “कः श्रद्दध्यात् सगाङ्गेयान् हन्यास्त्वं सर्व्वकौर- वान् । आभीरेभ्यश्च भवतः कः श्रद्दध्यात् पराभवम् ॥ पार्थैतत् सर्व्वभूतस्य हरेर्लीलाविचेष्टितम् । त्वया यत् कौरवा ध्वस्ता यदाभीरैर्भवान् जितः ॥ गृहीता दस्युभिर्याश्च भवता शोचिताः स्त्रियः । तदप्यहं यथावृत्तं कथयामि तवार्ज्जुन ! ॥ अष्टावक्रः पुरा विप्रो जलवासरतोऽभवत् । बहूनब्दगणान् पार्थ ! गृणन् ब्रह्म सनातनम् ॥ जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः । बभुव तत्र गच्छन्त्यो ददृशुस्तं वरस्त्रियः ॥ रम्भातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः । तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ! ॥ आकण्ठमग्नं सलिले जटाभारधरं मुनिम् । विनयावनताश्चैनं प्रणेमुः स्तोत्रतत्पराः ॥ यथा यथा प्रसन्नोऽसौ तुष्टुवुस्तं तथा तथा । सर्व्वास्ताः कौरवश्रेष्ठ ! वरिष्ठन्तं द्विजन्मनाम् ॥ श्रीअष्टावक्र उवाच । प्रसन्नोऽहं महाभागा भवतीनां यदीस्यते । मत्तस्तद्व्रियतां सर्व्वं प्रदास्याम्यतिदुर्लभम् ॥ श्रीपराशर उवाच । रम्भातिलोत्तमाद्यास्तं वैदिक्योऽप्सरसोऽब्रुवन् । प्रसन्ने त्वय्यसंप्राप्तं किमस्माकमिति द्विज ! ॥ इतरास्त्वब्रुवन् विप्र ! प्रसन्नो भगवान् यदि । तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र ! पुरुषोत्तमम् ॥ श्रीव्यास उवाच । एवं भविष्यतीत्युक्त्वा प्रोत्ततार जलान्मुनिः । तमुत्तीर्णञ्च ददृशुर्विरूपं वक्रमष्टधा ॥ तब्दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् । ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ! ॥ श्रीअष्टावक्र उवाच । यस्माद्बिरूपरूपं मां मत्वा हासावमानना । भवतीभिः कृता तस्मादेष शापं ददामि वः ॥ मत्प्रसादेन भर्त्तारं लब्ध्वा तु पुरुषोत्तमम् । मच्छापोपहताः सर्व्वा दस्युहस्तं गमिष्यथ ॥” “एवन्तस्य मुनेः शापादष्टावक्रस्य केशवम् । भर्त्तारं प्राप्य ता याता दस्युहस्तं वराङ्गनाः ॥ तत्त्वया नात्र कर्त्तव्यः शोकोऽल्पोऽपि हि पाण्डव ! । तेनैवाखिलनाथेन सर्व्वन्तदुपसंहृतम् इति विष्णुपुराणे । ५ । ३८ । ६८ -- ८५ ॥
📄 मूल मुद्रित पृष्ठ (2-823-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬