नवक न० नवानामवयवः सङ्ख्यायाः कन् । १ नवसंख्यायाम् नवपरिमाणमस्य । २ नवसंख्यान्विते त्रि० नवनवकशब्दे वक्ष्यमाणदक्षोक्तानीव नवनवकान्युक्त्वा काशी० ख० ४० अ० दशमं नवकमुक्तं यथा “एतन्नवानान्नवकं ज्ञात्वा श्रियमवाप्नुयात् । अन्यच्च नवकं वचिम सर्वेषां स्वर्गमार्गदम् । सत्यं शौचमहिंसा च क्षान्तिर्ज्ञानं दया दमः । अस्तेय इन्द्रियाक्षोभः सर्वेषां धर्मसाधनम् । अभ्यस्य नवतिं ह्येतां स्वर्गमार्गप्रदीपि- काम् । सतामभिमतां पुण्यां गृहस्थो नावसीदति” । “इति वीराष्टकः प्रोक्तः खन्धमातृगणोद्भवः । छाग- वक्त्रेण सहितो नवकः परिकीर्त्त्यते” भा० व० २२७ अ० कानिचित् नवकानि सा० ति० उक्तानि यथा “गुणिता नवधा नित्या सूते मन्त्रं नवार्णकम् । नवकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी । नवकं पीठशक्तीनां शृङ्गारादीन् रसानपि । माणिक्यादीनि रत्नानि नव- वर्गयुतानि च । नवकं प्राणदूतीनां मण्डलं नवकं शु- भम् । यद्यन्नवात्मकं लोके सर्वमस्या उदञ्चति” । तत्र शक्तितत्त्वनवकं तत्रैव प्रथमपटले “सच्चिदानन्दविभ- वात् सकलात् परमेश्वरात् । आसीच्छक्तिस्ततो नादी नादाद्विन्दुसमुद्भवः । परशक्तिमयः साक्षात् त्रिधासौ भिद्यते पुनः” नादविन्दूनां प्रत्येकं त्रिधाभेदात् नवसंख्या । तेषां भेदाश्च तत्रैवोक्ता यथा “विन्दुर्नादो वीजमिति तस्य भेदाः समीरिताः । विन्दुः शिवात्मको वीजं शक्तिर्ना- दस्तयोर्मिथः । समवायः समाख्यातः सर्वागमविशारदैः । रौद्रो विन्दोस्तती नादात् ज्येष्ठा वीजादजायत । वामा ताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः । विज्ञाने- च्छाक्रियात्मानो वह्नीन्द्वर्कस्वरूपिणः । भिद्यमानात् पराद्विन्दोरव्यक्तात्मा रवोऽभवत्” । पीठशक्तीनां नवकं तत्तन्मन्त्रभेदे तत्तत्प्रकरणे तत्रोक्तम् । शृङ्गारादिरस नवकमलङ्कारे प्रसिद्धं नवरसशब्दे दृश्यम् । रत्ननवकं नवरत्नशब्दे दृश्यम् तच्च ६ पटले तत्रैवोक्तम् । वर्गाणां नवकम् अकचट तप यशहानां नवकं ७ पटले तत्रोक्तम् । मण्डलनवकं तत्रैव ८ पटले “चतुरस्नां भुवं भित्त्वा कोष्ठानां नवकं लिखेत् । पूर्वकोष्ठादिषु लिखेत् सप्तवर्गा [] ननुक्रमात् । लक्षमीशे मध्यकोष्ठे स्वरयुम्मक्रमाल्लिखेत्” इत्युक्तम् । प्राणदूतीनां नवकं २३ पटले तत्रोक्तं दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (3986-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।