नवनवक न० नवगुणितं नवकम् । दक्षसंहितोक्ते ज्ञातव्ये एकाशीतिपदार्थे “सुधा नव गृहस्थस्येषद्देयानि नवैव तु । तथैव नव- कर्माणि विकर्माणि तथा नव । प्रच्छन्नानि नवान्यानि प्रकाश्यानि तथा नव । सफलानि नवान्यानि निष्फलानि नवैव तु । अदेयानि नवान्यानि वस्तुजातानि सर्वदा । नवका नव निर्दिष्टा गृहस्थोन्नतिकारकाः । सुधा वस्तूनि वक्ष्यामि विशिष्टे गृहमागते । मनश्चक्षुर्मुखं वाचं सौम्यं दद्याच्चतुष्टयम् । अभ्युत्थानमिहागच्छ पृच्छा- लापप्रियान्वितः । उपासनमनुव्रज्या कार्य्याण्येतानि यत्नतः । ईषद्दानानि चान्यानि भूमिरापस्तृणानि च । पादशौचं तथाभ्यङ्ग आश्रयः शयनन्वथा । किञ्चिच्चान्नं यथाशक्ति नास्यानश्नन् गृहे वसेत् । मृज्जलं चार्थिने देयमेतान्यपि सदा गृहे । सन्ध्या स्नानं जपो होमः स्वाध्यायो देवतार्चनम् । वैश्वदेवं तथातिथ्यमुद्धृतञ्चापि शक्तितः । पितृदेवमनुष्याणां दीनानाथतपस्विनाम् । मातापितृगुरूणाञ्च संविभागो यथार्हतः । एतानि नव कर्माणि विकर्माणि तथा पुनः । अनृतं पारदार्य्यञ्च तथाऽभक्ष्यस्य भक्षणम् । अगम्यागमनापेयपानं स्तेयञ्च हिंसनम् । अश्रौतकर्माचरणं स्मार्त्तधर्मबहिष्कृतम् । नवैतानि विकर्माणि तानि सर्वाणि वर्जयेत् । आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् । तपोदानावमानौ च नव गोप्यानि यत्नतः । प्रायोग्यमृणशुद्धिश्च दानाध्ययन- विक्रयाः । कन्यादानं वृषोत्सर्गोरहःपापमकुत्सनम् । प्रकाश्यानि नवैतानि गृहस्थाश्रमिणस्तधा । माता- [] पित्रोर्गुरौ मित्रे विनीते चोपकारिणि । दीनानार्थ- विशिष्टेभ्यो दत्तन्तु सफलं भवेत् । धूर्त्ते वन्दिनि मन्दे च कुवैद्ये कितवे शठे । चाटुचारणचौरेभ्यो दत्तं भवति निष्फलम् । सामान्यं याचितं न्यास आधि- र्दाराश्च तद्धनम् । क्रमायातञ्च निक्षेपः सर्वस्वञ्चान्वये सति । आपत्स्वपि न देयानि नव वस्तूनि सर्वदा । यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः । नवनवक- येत्तारमनुष्ठानपरं नरम् । इह लोके परे च श्रीः स्वर्गस्थञ्च न मुञ्चति” ।
📄 मूल मुद्रित पृष्ठ (3989-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।