नाटकं, क्ली, (नाटयतीति । नट + णिच् + ण्वुल् ।) गद्यपद्यप्राकृतभाषादिमयग्रन्थविशेषः । तत्- पर्य्यायः । महारूपकम् २ । इति त्रिकाण्ड- शेषः ॥ तस्य लक्षणं यथा, -- “नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम् । विलासर्द्ध्यादिगुणवत् युक्तं नानाविभूतिभिः ॥ सुखदुःखसमुद्भूतिनानारससमन्वितम् । पञ्चादिका दशपरास्तत्राङ्काः परिकीर्त्तिताः ॥ प्रख्यातवंशो राजर्षिर्धीरोदात्तः प्रतापवान् । दिव्योऽथ दिव्यादिव्यो वा गणवान्नायको मतः ॥ एक एव भवेदङ्गी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्व्वे कार्य्यं निर्व्वहणेऽद्भुतम् ॥ चत्वारः पञ्च वा मुख्याः कार्य्यव्यापृतपूरुषाः । गोपुच्छाग्रसमाग्रन्तु बन्धनं तस्य कीर्त्तितम् ॥” इति साहित्यदर्पणे । ६ । २७७ ॥ अपि च । “नाटकं स्यात् प्रकरणं व्यायोगोऽङ्कस्तथा डिमः । ईहामृगः प्रहसनं भानः समरकारकः ॥ वीथीति भरतः प्राह नाट्येषु दशरूपकम् । नाटिका प्रेक्षणञ्चैव त्रोटकं शाकटं तथा ॥ गोष्टीसंलापशिल्पानि भानीहल्लीशरासकौ । उल्लापकं श्रीगदितं प्रस्थानं नाट्यरासकम् ॥ दुर्म्मल्लिका लासिका च काव्यञ्चेत्युपरूपकम् । स्यात सप्तदश संख्यन्तु लक्षणस्तत्र कथ्यते ॥ [] प्रख्यातोत्तमनायकं रसमयं राजर्षिवंशोद्भवं साङ्कं भङ्गजयान्वितं लयमयं तत्तत्पुराणाश्रयम् । भाषावैभवसुन्दरं प्रविलसन्नानाविलासं बलद्- वृत्तिव्याप्तमशेषसन्धिसहितं सप्ताङ्गवन्नाटकम् ॥” अन्ये तु । “देवतानां मनुष्याणां राज्ञां लोके महात्मनाम् । पूर्व्ववृत्तानुचरितं प्रख्यातोदात्तनायकम् ॥ प्रवेशकविविष्कम्भादिभिः सन्धिभिरन्वितम् । इतिहासकथोद्भूतं सुखदुःखोदयैर्युतम् ॥ षट्पञ्चदशसप्ताष्टनवाङ्कैरनुभूषितम् । नानाविलासलीलाभिः सर्व्वसिद्धिभिरन्वितम् ॥ नानाभावरसैराढ्यं नाटकं सूरयो विदुः । किञ्चिदङ्गविहीनन्तु न त्याज्यं नाटकं क्वचित् ॥ आरम्भश्च प्रयत्नश्च प्राप्तिः सम्भव एव च । नियता च फलप्राप्तिः फलयोगस्तथापरः ॥ इत्यवस्थाप कं स्यात् नाटके कार्य्यवस्तुनः । संस्कृतं प्राकृतं भूतभाषाप्रभ्रंशिका गिरः । नाटके नियताः शस्ता एषा भाषा रसावहा ॥ भाषाविभाषाभेदेन प्राकृतन्तु चतुर्द्दश ॥ मागध्यावन्तिका प्राच्या शौरसेन्यर्द्धमागधी । वाह्लीका दाक्षिणात्याश्च भाषाः सप्त च प्राकृते ॥ शकाराभीरचाण्डालशवरद्रविडौड्रजाः । वनौकसीविज्रातीनां विभाषाः सप्त कीर्त्तिताः ॥ कैकेयी शौरसेनी च काञ्ची पाञ्चालमागधी । द्राविडी पाण्डुदेशी च भूतभाषा प्रकीर्त्तिताः ॥ वैदर्भी मागधी नाटी काम्बोजी चोपनागरी । पाञ्चाली षडपभ्रंशभाषा स्युर्द्देशभेदतः ॥ देवतादर्शनान्तञ्च कर्त्तव्यं नाटकं बुधैः । राजर्षिदर्शनान्तं या तेऽपि देवैः समा मताः ॥ उदाहरणम् । मुरारिकवेरनर्घराघवं भवभूते- रुत्तररामचरितं कालिदासस्याभिज्ञानशकु- न्तलञ्चेत्यादि । इति नाटकलक्षणम् ।” इति सङ्गीतदामोदरः ॥
नाटकः, पुं, (नट्यते नृत्यते देवयोनिभिरत्र । नट + घञ् । ततः स्वार्थे कन् । यद्बा, नाटयतीति नट + णिच् + ण्वुल् ।) कामाख्यास्थपर्व्वतभेदः । यथा, -- “ऐशान्यां नाटके शैले शङ्करस्य महाश्रमम् । नित्यं वसति तत्रेशस्तदधीना तु पार्व्वती ॥” इति कालिकापुराणम् ॥ (नाटकशाला । यथा, रामायणे । १ । ५ । १२ । “बधूनाटकसङ्घैश्च संयुक्तां सर्व्वतः पुरीम् ॥” नटतीति । नट + ण्वुल् ।) नर्त्तके, त्रि । इति व्याकरणम् ॥
📄 मूल मुद्रित पृष्ठ (2-852-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।