नारदीय न० नारदस्येदम् “वृद्धाछः” पा० वेदव्यासकृते नारदं प्रति सनकाद्युपदेशात्मके महापुराणभेदे तत्प्रतिपाद्य- विषयाश्च वृहन्नारदीये ९६ अ० उक्ता यथा श्रीब्रह्मोवाच । “शृणु विप्र! प्रवक्ष्यामि पुराणं नार- दीयकम् । पञ्चविंशतिसाहस्रं वृहत् चित्रकथाश्रयम् । सूतशौनकसंवादः सृष्टिसंक्षेपवर्णनम् । नानाधर्मकथाः पुण्याः प्रवृत्ते समुदाहृताः । प्रागभागे प्रथमे पादे सन- [] केन महात्मना । द्वितीये मोक्षधर्माख्ये मोक्षोपायनि- रूपणम् । वेदाङ्गानाञ्च कथनं शुकोत्पत्तिश्च विस्तरात् । सनन्दनेन गदिता नारदाय महात्मने । महातन्त्रे समुद्दिष्टं पशुपाशविमोक्षणम् । मन्त्राणां शोधनं दीक्षा मन्त्रोद्धारश्च पूजनम् । प्रयोगाः कवचं नामसहस्रं स्तोत्रमेव च । गणेशसूर्य्यविष्णूनां शिवशक्त्योरनु- क्रमात् । सनत्कुमारमुनिना नारदाय तृतीयके । पुराणलक्षणञ्चैव प्रमाणं दानमेव च । पृथक् पृथक् समुद्दिष्टं दानकालपुरःसरम् । चैत्रादिसर्वमामेषु तिथीनाञ्च पृथक् कृथक् । प्रोक्तं प्रतिपदादीनां व्रतं सर्वाघनाशनम् । सनातनेन सुनिना नारदाय चतुर्थके । पूर्वभागोऽयमुदितो वृहदाख्यानसंज्ञितः । अस्योत्तरे वि- भागे तु प्रश्र एकादशीव्रते । वशिष्ठेनाथ संवादो मान्धातुः परिकीर्त्तितः । रुक्माङ्गदकथा पुण्या मोहि- न्युत्पत्तिकर्म च । वसुशापश्च मोहिन्यै पश्चादुद्धरण क्रिया । गङ्गाकथा पुण्यतमा गयायात्रानुकीर्त्तनम् । काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम् । यात्राविधानं क्षेत्रस्य वह्वाख्यानसमन्वितम् । प्रयागस्याहि माहात्म्यं कुरुक्षेत्रस्य तत्परम् । हरिद्वारस्य चाख्यानं कामोदा- ख्यानकं तथा । वदरीतीर्थमाहात्म्यं कामाख्यायास्तथैव च । प्रभासस्य च माहात्म्यं पुराणाख्यानकं ततः । गौतमाख्यानकं पश्चाद् वेदपादतपस्ततः । गोकर्णक्षेत्र- माहात्म्यं लक्षणाख्यानकं तधा । सेतुमाहात्म्यकथनं नर्मदातीर्थवर्णनम् । अवन्त्याश्चैव माहात्म्यं मथुराया- स्ततःपरम् । वृन्दावनस्य महिमा वसोर्व्रह्मान्तिके गतिः । मोहिनीचरितं पश्चादेवं वै नारदीयकम् । यः शृणोति नरो भक्तप्रा श्रावयेद्वा समाहितः । स याति ब्रह्मणो धाम नात्र कार्य्या विचारणा । यस्त्वे- तदिह पूर्णायां धेनूनां सप्तकान्वितम् । प्रदद्याद्द्वि- जवर्य्याय स लभेन्मोक्षमेव च । यश्चानुक्रमणीमेतां नारदीयस्य वर्णयेत् । शृणुयाद्वैकचितेन सोऽपि स्वर्ग- गतिं लभेत्” ।
📄 मूल मुद्रित पृष्ठ (4045-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।