🕉️ 21 November 2026, Saturday · 10:24:37 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नारिकेल
nārikela
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
नारिकेल संज्ञा पुं॰ [सं॰] नारियल ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नारिकेल m. id., MBh. &c. (L. also ˚लि f., or ˚ली f.)
📄 मूल मुद्रित पृष्ठ (537,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नारिकेरः, --लः The cocoa-nut; नारिकेलसमाकारा दृश्यंते हि सुहृज्जनाः H. 1. 94. (The word is also written नारिकेलि-ली, नरिकेर-ल, नारीकेलि ली, --नाडि (डी) केर, नालिकेर, नालिकेलि-ली). --ली Fermented liquor made from the water of the cocoa-nut.
📄 मूल मुद्रित पृष्ठ (0616-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नारिकेल पु० नल--इण् नालिः केन वायुना जलेन वा इलति चलति इल--क कर्म० रलयोरैक्यम् । स्वनाम- ख्यातेऽवृक्षे अमरः । नालिकेरोऽपि तत्रार्थे शब्दरत्ना० । “नारिकेलफलं शीतं दुर्जरं वस्तिशोधनम् । विष्टम्भि वृं- हणं बल्यं वातपित्तास्रदाहनुत् । विशेषतः कोमल ना- रिकेलं निहन्ति पित्तज्वरमूत्रदोषान् । तदेव जीर्णं गुरु- पित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः” नवस्य जल- गुणाः । “तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलंलघु । पिपासा पित्तजित् स्वादु वस्तिशुद्धिकरं परम्” । तस्य मस्तिष्कगुणाः “नारिकेलस्य तालस्य खार्जूरस्य शिरांसि तु । कषायस्निग्धमधुरवृंहणानि गुरूणि च” भावप्र० “वालस्य नारिकेलस्य जलं प्रायो विरेचनम्” इति राजवल्लभः । कांस्यपात्रे तत् जलं मद्यतुल्यं यथाह “नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु । गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना” इति कर्मलोचनम् । तस्येदमण् । २ तदीये त्रि० “नारिकेलासवं तत्र शात्रवं व यशः पपुः” रघुः । अष्टम्यां तद्भक्षणनिषेधः “नारिकेले च मूर्खता” ति० त० तिथिभेदेऽभक्ष्योक्तौ “कोजागररात्रौ तदुदकपानं कार्यं यथाह “नारिकेलोदकं पीत्वा कोजा- बर्त्तिमहीतले” ति० त० कोजागरशब्दे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (4048,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नारिकेलः, पुं, (किल श्वैत्ये क्रीडने च + भावे घञ् । नार्य्या रमण्याः केल इव सुखदायी केलो यस्य । पृषोदरादित्वात् ह्रस्वः ।) स्वनाम- प्रसिद्धफलवृक्षविशेषः । तत्पर्य्यायः । लाङ्गली २ । इत्यमरः । २ । ४ । १६८ ॥ नारिकेरः ३ नाडि- केलः ४ नारीकेलः ५ नारीकेली ६ नारि- केरी ७ । इत्यादि भरतः । नारिकेलिः ८ सदापुष्पः ९ शिरःफलः १० । इति शब्दमाला ॥ नालिकेरः ११ रसफलः १२ सुतुङ्गः १३ कूर्च्च- शेखरः १४ दृढनीलः १५ नीलतरुः १६ मङ्गल्यः १७ उच्चतरुः १८ तृणराजः १९ स्कन्धतरुः २० दाक्षिणात्यः २१ दुरारुहः २२ त्र्यम्बकफलः २३ दृढफलः २४ । इति राजनिर्घण्टः ॥ कूर्च्च- शीर्षकः २५ तुङ्गः २६ स्कन्धफलः २७ उच्चः २८ सदाफलः २९ । इति भावप्रकाशः ॥ शिरा- [] फलः ३० करकाम्भाः ३१ पयोधरः ३२ मत्- कुणः ३३ कौषिकफलः ३४ फलमुण्डः ३५ चटा- फलः ३६ मुण्डफलः ३७ विश्वामित्रप्रियः ३८ । इति शब्दरत्नावली ॥ नारकेरः ३९ सुभङ्गः ४० फलकेसरः ४१ । इति जटाधरः ॥ अस्य गुणाः । गुरुत्वम् । स्निग्धत्वम् । शीतत्वम् । पित्तनाशित्वञ्च ॥ * ॥ अर्द्धपक्वस्य तस्य गुणौ । तृषाशोषशमनत्वम् । दुर्ज्जरत्वञ्च ॥ * ॥ बाल- नारिकेलजलगुणाः । लघुत्वम् । शीतलत्वम् । रसपाके मधुरत्वम् । पित्तपीनसतृषास्रविदाह- भ्रान्तिशोषशमनत्वम् । सुखदायित्वञ्च ॥ * ॥ पक्वनारिकेलजलगुणाः । किञ्चित्पित्तकारित्वम् । रुचिदत्वम् । मधुरत्वम् । दीपनत्वम् । बल- करत्वम् । गुरुत्वम् । वृष्यत्वम् । वीर्य्यवर्द्धन- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ “नारिकेलफलं शीतं दुर्ज्जरं वस्तिशोधनम् । विष्टम्भि वृंहणं बल्यं वातपित्तास्रदाहनुत् ॥ विशेषतः कोमलनारिकेलं निहन्ति पित्तज्वरमूत्रदोषान् । तदेव जीर्णं गुरु पित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः ॥ तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलं लघु । पिपासापित्तजित् स्वादु वस्तिशुद्धिकरं परम् ॥” तस्य मस्तिष्कगुणाः । “नारिकेलस्य तालस्य खर्ज्जूरस्य शिरांसि तु । कषायस्निग्धमधुरवृंहणानि गुरूणि च ॥” इति भावप्रकाशः ॥ * ॥ “बालस्य नारिकेलस्य जलं प्रायो विरेचनम् ॥” इति राजवल्लभः ॥ * ॥ कांस्यपात्रे तज्जलं मद्यतुल्यम् । यथा, -- “नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु । गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥” इति कर्म्मलोचनम् ॥
📄 मूल मुद्रित पृष्ठ (2-868-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "नारिकेल" आता है (4)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें