🕉️ 21 November 2026, Saturday · 10:25:59 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नासारोग
nāsāroga
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
नासारोग संज्ञा पुं॰ [सं॰] नाक में होनेवाले रोग जिनकी संख्या सुश्रुत के अनुसार ३१ और भावप्रकाश के मत से ३४ है । विशेष—सुश्रुत के अनुसार इनके नाम इस प्रकार है—अपनीस्य (पीनस), पूतिनस्य, नासापाक, रक्तपित्त, पूयशोणित, क्षवथु, भ्रंशथु, दीप्ति, प्रतिनाह, परिस्त्राव, नासाशोष, ४ प्रकार के अर्श, ४ प्रकार के शोथ, ७ प्रकार के अर्बुद और ५ प्रकार के प्रति- श्याय । भावप्रकाश में इससे इतनी विशेषता की है कि एक रक्तपित्त के स्थान पर चार प्रकार के रक्तपित्त लिख दिए हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नासा—रोग m. disease of the Suśr.
📄 मूल मुद्रित पृष्ठ (538,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नासारोगः, पुं, (नासाया रोगः ।) नासिका- व्याधिः । “अथ नासारोगाधिकारः । तत्र नासा- रोगाणां नामानि संख्याञ्चाह । आदौ च पीनसः प्रोक्तः पूतिनस्यस्ततः परम् । नासापाकोऽत्र गणितः पूयशोणितमेव च ॥ क्षवथुर्भ्रंशथुर्दीप्तिः प्रतीनाहः परिस्रवः । नासाशोषः प्रतिश्यायाः पञ्च सप्तार्व्वुदानि च ॥ [] चत्वार्य्यर्शांसि चत्वारः शोथाश्चत्वारितानि च । रक्तपित्तानि नासायां चतुस्त्रिंशद्गदाः स्मृताः ॥ तेषु पीनसस्य लक्षणमाह । आनह्यते शुष्यति यस्य नासा प्रक्लेदमायाति च धूप्यते च । न वेत्ति यो गन्धरसांश्च जन्तु- र्ज्जुष्टं व्यवस्येदिह पीनसेन ॥ आनह्यते श्वासंशोषितकफेनावध्यते अवरुद्धत इति यावत् । प्रक्लेदं आर्द्रताम् । धूप्यते सन्ता- प्यते । गन्धरसान् गन्धान् सुरभीनसुरभींश्च न वेत्ति । नासाया आनद्धत्वं तत्र हेतुः । तथा रसान् मधुरादींश्च न वेत्ति । नासारोगा- रम्भकदोषेण रसनाया अपि दुष्टेः । व्यवस्येत् जानीयात् । अपीनसपीनसौ द्बावपि शब्दौ स्तः ॥ * ॥ अनुक्तसंग्रहार्थमाह । तञ्चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् । तं विकारं पीनसं प्रतिश्यायसमानलिङ्गं वात- श्लेष्मकप्रतिश्यायतुल्यलक्षणम् ॥ पूतिनस्यमाह । दोषैर्व्विदग्धैर्गलतालुमूले सन्दूषितो यस्य समीरणस्तु । निरेति पूतिर्म्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम् ॥ दोषैः पित्तकफरक्तैः । अत्र रक्तस्यापि दोषत्वं दोषसाहचर्य्यात् । विदग्धैर्द्वुष्टैः । संदूषितः पूतिभावं नीतः । पूतिनस्यं नासायां भवो नस्यो वायुः पूतिर्नस्यो यत्र स पूतिनस्यस्तम् ॥ * ॥ नासापाकमाह । घ्राणाश्रितं पित्तमरूंषि कुर्य्यात् यस्मिन् विकारे बलवांश्च पाकः । तं नासिकापाकमिति व्यवस्येत् विक्लेदकोथावथवापि यत्र ॥ विक्लेद आर्द्रता । कोथः पूतिभावः ॥ * ॥ पूयरक्तमाह । दोषैर्व्विदग्धैरथवापि जन्तो- र्ललाटदेशेऽभिहतस्य तैस्तैः । नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ॥ क्षवथुमाह । घ्राणाश्रिते मर्म्मणि संप्रदुष्टो यस्यानिलो नासिकया निरेति कफानुजातो बहुशोऽतिशब्द- स्तं रोगमाहुः क्षवथुं गदज्ञाः ॥ घ्राणाश्रिते मर्म्मणि शृङ्गाटके ॥ * ॥ दोषजं क्षवथुमभिधायागन्तुजं क्षवथुमाह । तीक्ष्णोपयोगाद्तिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्बा । सूत्रादिभिर्व्वा तरुणास्थिमर्म्म- ण्युद्धर्वितेऽन्यः क्षवथुर्निरेति ॥ तीक्ष्णोपयोगात् राजिकादिभक्षणात् । अर्क- निरीक्षणात् सूर्य्यदर्शनात् तेन कफविलेपनात् । [] तरुणास्थि नासावंशास्थि । मर्म्मणि शृङ्गाटके । द्वन्द्रेनैकत्वम् । अन्यः आगन्तुजः ॥ * ॥ भ्रंशथुमाह । प्रभ्रंशते नासिकया तु यस्य सान्द्रो विदग्धो लवणः कफस्तु । प्राक् सञ्चितो मूर्द्धनि पित्ततप्ते तं भ्रंशथुं व्याधिमुदाहरन्ति ॥ दीप्तिमाह । घ्राणे भृशं दाहसमन्विते तु विनिःसरेत् धूम इवेह वायुः । नासाप्रदीप्तेव च यस्य जन्तो- र्व्याधिन्तु दीप्तिं तमुदाहरन्ति ॥ प्रदीप्तेव प्रज्वलितेव ॥ * ॥ प्रतीनाहमाह । उच्छ्वासमार्गन्तु कफः सवातो रुन्ध्यात् प्रतीनाहमुदाहरेत्तम् ॥ सावमाह । घ्राणाद्घनः पीतसितस्तनुर्व्वा दोषः स्रवेत् स्रावमुदाहरेत्तम् ॥ नासाशोषमाह । घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च । कृच्छ्राच्छ्वसित्यूर्द्ध्वमधश्च जन्तु- र्यस्मिन् स नासापरिशोष उक्तः ॥ प्रतिश्यायमाह । तस्य निदानं द्विविधम् । एकं सद्योजनकं तद्बल वत्त्वेन चयं नापेक्षते । यत उक्तम् । न केवलं चयं प्राप्य दोषाः कुप्यन्ति देहिनाम् । अन्यदापि हि कुप्यन्ति हेतुबाहुल्यतोरणात् ॥ हेतूनां बाहुल्येन त्वराकरणात् । अपरं चयादि- क्रमेण जनकम् । चयादिक्रमो यथा । निदा- नात् सञ्चयः सञ्चयात् प्रकोपः प्रको
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "नासारोग" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें