🕉️ 23 November 2026, Monday · 07:25:02 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

निक्षेप
nikṣepa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
निक्षेप संज्ञा पुं॰ [सं॰]
१. फेंकने या डालने की क्रिया या भाव ।
२. चलाने की क्रिया या भाव ।
३. छोड़ने या रखने की क्रिया या भाव । त्याग ।
४. पोंछने की क्रिया या भाव ।
५. धरोहर । अमानत । थाती । किसी के विश्वास पर उसके यहाँ कोई वस्तु छोड़ने या रखने का कार्य अथवा इस प्रकार छोड़ी या रखी हुई वस्तु ।
६. अर्पण करना । अर्पण करने की क्रीया या भाव (को॰) ।
७. मजदूर को सफाई या मरम्मत के लिये कोई वस्तु देना [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नि-˚क्षेप m. putting down, HYog. (esp. of the feet, Kālid.)
throwing or casting on (loc. or comp.), Megh.; Sāh.
a deposit, pledge, trust, anything pawned, Mn.; Yājñ.; MBh.; Kāv. &c.
abandoning, throwing or sending away, W.
wiping, drying, ib.
📄 मूल मुद्रित पृष्ठ (545,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
निक्षेपः 1 Throwing or casting on (with acc.); अलं मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण S. D. 2. --2 A deposit, pledge; pawn in general; Pt. 1. 14; Ms. 8. 4. --3 Anything deposited without a seal in trust or as a compensation, an open deposit; समक्षं तु निक्षेपणं निक्षेपः Mit. on Y. 2. 67. --4 Sending away. --5 Throwing away, abandoning. --6 Wiping, drying.
📄 मूल मुद्रित पृष्ठ (0618-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
निः(नि)क्षेप पु० निर्--(नि)वा क्षिप--भावे घञ् । १ अर्पणे (गच्छितराखा) अष्टादशविवादान्तर्गते २ विवादभेदे । स च वीर० मि० विस्तरेण दर्शितो यथा [] “अथ निः(नि)क्षेपाख्यव्यवहारपदम् । तत्र निः(नि) क्षेपो नाम स्वद्रव्यस्य विश्वासेन पुरुषान्तरे स्थापनम् । तथा च नारदः “स्वद्रव्यं यत्र विस्रम्भान्निः(नि)- क्षिपत्यविशङ्कितः । निः(नि)क्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैरिति” नच न्यासोपनिध्योरतिव्याप्ति- स्तयोर्लक्ष्यत्वान्निः (नि)क्षेप एव । ग्राहकस्यासमक्षं सम- र्पितो न्यास इत्युच्यते । अतएव वृहस्पतिः “राजचौ- रादिकभयाद्दायादानां च वञ्चनात् । स्थाप्यतेऽन्यगृहे द्रव्यं न्यासः स परिकीर्त्तितः” इति । अयमेवागणि- तद्रव्यस्थापने उपनिधिरित्युच्यते । तथा च नारदः “असङ्ख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीया- दुपनिधिं निः(नि)क्षेपङ्गणितं विदुरिति” । असङ्ख्यातम् अनाख्यातम् अविज्ञातम् अदर्शितम् । अतएव वृह- स्पतिः “असमक्षं व्यवहितमसङ्ख्यातमदर्शितम् । मुद्रा- ङ्कितञ्च यद्द्रव्यं तदौपनिधिकं स्मृतमिति” व्यवहितं करण्डकादौ प्रक्षिप्य पिहितम् । अतएव याज्ञवल्क्यः “वासनस्थमविज्ञातं हस्तेऽन्यस्य यदर्प्यते । द्रव्यन्तदौप- निधिकं प्रतिदेयन्तथैव तदिति” वासनं द्रव्याधार करण्डकादि तत्स्थं वासनस्थम् । हस्तग्रहणमुपलक्ष- णम् । अतएव नारदः “निः(नि)क्षिप्यते परगृहे तदौप- निधिकं स्मृतमिति” । तथा चायमेतेषाम्भेदः । ग्राह- कस्य समक्षं गणयित्वा स्थापितं निः(नि)क्षेपः । गृहस्वा- मिनोऽसमक्षं गणितं वा तस्मिन्नामते एतद्दातव्यमित्यु- क्त्वाऽन्यस्य तत्पुत्रादेर्हस्ते दत्तं न्यासः । मुद्राङ्कितमस- मक्षमनणितं स्थापितमुपनिधिरिति । निः(नि)क्षेपादीनां स्थापनप्रकारमाह मनुः “कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि । महापक्षे धनिन्यार्य्ये निः(नि)क्षेपं निः- (नि)क्षिपेद्बुधः” इति । महापक्षे बहुतरबन्धुयुक्ते । निः(नि)क्षेपग्रहणमुपलक्षणम् । वृहस्पतिः “स्थानं गृहञ्च तद्वर्णं विधानञ्च गुणन्तथा । सत्यं शौचं वन्धुजनं परीक्ष्य स्थापयेन्निधिमिति” निधिरुपनिधिः । एतदप्यु- पलक्षणम् । निः(नि)क्षेपादीनां रक्षणं कथं कर्तव्यं ग्रा- हकेणेत्याह वृहस्पतिः “ससाक्षिकं रहोदत्तं द्विबिधं समुदाहृतम् । पुत्रवत्परिपाल्यं तद्विनश्यत्यनवेक्षणे” इति । पालयितुः फलभपालयितुर्दोषञ्चाह “ददतो यद्भवेत् पुण्यं हेमकूप्याम्बरादिकम् । तत् स्यात्फलमतो न्यासो यथैव श- रणागतः । भर्तृद्रोहं यथा नार्याः पुंसः पुत्रसुहृद्बधे । दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम् । न्यास- [] द्रव्य” न गृह्णीयात्तन्नाशस्त्वयशस्करः । गृहीतं पाल- येद्यत्नात् सकृद्याचितमर्पयेदिति” न्यासग्रहणमुपलक्ष- णम् । तेन फलरक्षणादिकं निः(नि)क्षेपादित्रयसाधार- णमिति मन्तव्यम् । दैवराजोपघाते ग्राहकस्य न दोष इत्याह वृहस्पतिः “दैवराजोपघातेन यदि तन्नाशमाप्नु- यात् । ग्रहीतृद्रव्यसहितं न तद्दोषोऽत्र विद्यत” इति । ग्रहीतुरिति शेषः उपेक्षादिद्रव्यदोषाभावादिति मावः । ग्रहीतृद्रव्यसहितमित्युपेक्षाभावनिश्चयायोक्तम् । तेन क- थञ्चिन्निः(नि)क्षिप्तमात्रस्य विनाशे प्रमाणान्तरादुपेक्षाभावे निश्चिते ग्रहीतुर्दोषो न विद्यते इति मन्तव्यम् । दैव- राजग्रहणमसमाधेयनिमित्तोपलक्षणार्थम् । अतएव कात्यायनः “राजदैविकचौरैर्वा निः(नि)क्षिप्तं यत्र नाशितम् । ग्रहीतुः सह भाण्डेन दातुर्नष्टन्तदुच्यते” इति । भाण्डेन अर्थेन । नारदोऽपि “ग्रहीतुः सह योऽर्थेन नष्ट एव स दायिनः । दैवराजकृते तद्वन्न चेत्तज्जिह्मकारितमिति” तद्वदितिपदेनैकमुपमेयमन्य- दुपमानमित्यवगम्यते । तेनैवं योजना ग्रहीतुरर्थेन सह यो नष्टः
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
निक्षेपः, पुं, (नि + क्षिप् + घञ् ।) क्षेपणम् । त्यागः । समर्पितवस्तु । गच्छितद्रव्य इति भाषा । तत्पर्य्यायः । उपनिधिः २ न्यासः ३ । इति हेमचन्द्रः ॥ यथा, -- “स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः । निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥ असंख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥ निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेव च । याच्यमानो न चेद्दद्याद्वर्द्धते पञ्चकं शतम् ॥” इति मिताक्षरायां नारदः ॥ * ॥ “कुलजे वृत्तसम्पन्ने धर्म्मज्ञे सत्यवादिनि । गहापक्षे धनिन्यार्य्ये निक्षेपं निक्षिपेद्बुधः ॥ आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः । राजस्वं श्रोत्रियस्वञ्च न भोगेन प्रणश्यति ॥ स्वयमेव तु यो दद्यान्मृतस्य प्रत्यनन्तरे । न स राज्ञाभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ॥ यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥” इति मनुः । ८ अध्याये ॥
📄 मूल मुद्रित पृष्ठ (2-908-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "निक्षेप" आता है (2)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬